________________
१२६
आरम्भ-सिद्धिः
मृते साधौ पञ्चदशमुहूर्तेनैव पुत्रकः । एकत्रिंशन्मुहर्त्तस्तु क्षेप्यः शेषैस्तु भैरुभौ ॥ ६२ ॥
66
व्याख्या–भानां पञ्चदशमुहूर्त्तत्वादि प्रागुक्तं । नैवेति अभिजित्यपि न कार्यः पुत्रकः अवड्ढ अभिई न कायन्वो " इत्युक्तेः । क्षेप्य इति पुत्रकः कृत्वा मृतसाधुपार्श्वे स्थाप्यः, संस्कारावसरे मध्य एव क्षेप्यश्चेति रीतिः ॥ सर्पदष्टः सुपर्णेन रक्षितोऽपि न जीवति । मूलार्द्राभरणीयुग्ममघाश्लेषाद्विदैवतैः ॥ ६३ ॥
व्याख्या - न जीवतीति शेषेषु जीवतीत्यर्थः । मूलेत्यादि, विवेकविलासे त्वेवम्" मूलाश्लेषामघाः पूर्वात्रयं भरणिकाश्विनी ।
कृत्तिकार्द्रा विशाखा च रोहिणी दष्टमृत्युदाः ॥ १॥ " तथा" तिथयः पञ्चमी पष्ठ्यष्टमी नवमिका तथा । चतुर्दश्यप्यमावास्याऽहिना दष्टस्य मृत्युदाः ॥ २ ॥ दष्टस्य मृतये वारा भानुभौमशनैश्चराः ।
प्रातःसन्ध्यास्तसन्ध्या च संक्रान्तिसमयस्तथा ॥ ३॥ " इत्यादि ॥ जातरोगस्य पूर्वार्द्रास्वातिज्येष्ठाहि भैर्मृतिः । भवेन्नीरोगता रेवत्यनुराधासु कष्टतः ॥ ६४ ॥ मासान्मृगोत्तराषाढे विंशत्यह्नां मधासु च । पक्षेण तु द्विदैवत्ये धनिष्ठाहस्तयोस्तथा ॥ ६५ ॥ व्याख्या-उत्तराषाढेति, अभिजिजात रोगस्य मासद्वयेन मृत्युरारोग्यं चेति वृद्धाः ॥ भरणीवारुणश्रोत्र चित्रास्वेकादशाहतः । अश्विनी कृत्तिकारक्षोनक्षत्रेषु नवाहतः । ६६ ।। आदित्यपुष्पा हिर्बुध्न रोहिण्यार्यमणेषु तु । सप्ताहादिह ताराया यदि स्यादनुकूलता ॥ ६७ ॥ व्याख्या - ताराया इति " शुक्लेऽप्यासूत्थिते रोगे " इत्युक्तेः ॥ प्रसङ्गान्मृत्युज्ञानं लिख्यते— "आवाह धरेविभुअंगह, पनरहमाहि ठवे विणु अंगद | बारह बाहिरि तस्स य दिजइ, जीवियमरण फुडं जाणिजइ ॥ १ ॥ ornaraभमादौ दत्त्वा भुजङ्गस्थापना यथा - स्थापना यथा नं. २.
15
Aho! Shrutgyanam