________________
द्वितीय विमर्शः
तस्मामवमादिष्वष्टस्थानेष्वष्टौ रेखा देयाः । एवं मन्दभौमाभ्यामपि प्रत्येकमष्टाष्ट, गुरुतश्चतस्रः, शुक्रात्तिस्रः, बुधात्सप्त, लग्नात् षट , एवं तस्यामष्टिवर्गकुंडलिकायां सर्वरेखा रवेरष्टचत्वारिंशत् । एवमेव द्वितीयादिषु चन्द्राधष्टवर्गकुंडलिकासु क्रमात् सर्वरेखाः, एवञ्चन्द्रस्यैकोनपञ्चाशत्, भौमस्य चत्वारिंशत, बुधस्याष्टपञ्चाशत्, गुरोः षट्पञ्चाशत्, शुक्रस्य द्वापञ्चाशत्, शनेरेकोनचत्वारिंशच्चेति । उक्त
“वसुवेदौ १ नन्दवेदौ २ खवेदौ ३ वसुसायको ४ । षड्बाणौ ५ द्विशरौ ६ नन्दवह्नी ७ रेखा इनादिजाः" ॥ १ ॥
एवं चैकैकग्रहाष्टवर्गकुंडलिकायां द्वादशरवपि राशिस्थानेषु प्रत्येकं यावसंभवं रेखा देयाः, शेषाणि शून्यानि च । उत्कर्षतश्चैवमेकन स्थाने यथायोगमष्टौ रेखाः संभवेयुः । ततः कार्यकाले यो ग्रहो यत्र राशौ स्यात्तत्स्थानं वीक्ष्यते, तन्त्र स्थाने रेखाधिक्ये संग्रहः शस्तः, शून्याधिक्ये त्वशुम इति द्विधाऽपि चैकमेव तत्त्वं । अथासामुपयोग एवं
'चतुरेखे मध्यफलं हीने हीनं ततोऽधिके श्रेष्ठम् । विफलं गोचरगणितं त्वष्टकवर्गेण निर्दिष्टम् ” ॥ १ ॥
एकग्रहमाश्रित्येदमुक्तं । तात्कालिकीनां सर्वग्रह रेखाणां मीलने तु, षोड. शमध्ये कदापि न स्यात्, सप्तदशभ्य आरभ्योत्कृष्टाः षट्पञ्चाशतं यावत्तु स्युः । तत्र षड्वंशतिं यावदशुभा एव, सप्तविंशत्या समता, अष्टाविंशत्यादयस्तु षट्पञ्चाशतं यावद्यथाबहुत्वं शुभशुभतरशुभतमाः । __ " रेखाधिक्यं शस्तं शून्याधिक्यं तथाऽधमं कथितम् । एतत्संयोगे स्युः षट्पञ्चाशन्नजातु अधिकास्ताः ” ॥ १ ॥
अत्र षट्पञ्चाशदिति व्यादिसप्तकस्य प्रत्येकमष्टाष्टरेखासंभवे षट्पञ्चाशदेव तासां मेलनादिति भावः । विशेषस्तु-" चतूरेखं मध्यफलं " इति यद्यप्युक्तं, तथापि यस्य ग्रहस्याष्टकवर्गशुद्धिस्तदानीं विलोक्यमानाऽस्ति, तस्य शुद्धिपतेर्ग्रहस्य स्वतः समुत्था रेखा यदि संपद्यते तदा चतूरेखमपि श्रेष्ठ, तदभावे षड्विधादि. बलालङ्कृतस्य तन्मित्रग्रहस्य स्वतः समुत्था रेखा यदि संपद्यते तदापि चतूरेख प्रशस्यं । तस्या अप्यभावे स एव शुद्धिपतिम्रहो यदि वामवेधेन शुभः स्यात्तदाऽपि चतूरेख शुभं । प्रकारत्रयस्याप्यभावे त्वधिकरेखोऽपि ग्रहो न शुभ इति व्यवहारप्रकाशे। तथा षट्पञ्चाशदिति रेखासर्वाग्रं यदुक्तं, तद्राहोः सर्वथा रेखा न सन्तीति मतेन । केचित्तु राहोरपि रेखाः प्राहुः । तथाहि" केन्द्राष्टद्वित्रिगः १-४-७-१०-८-२-३सूर्याद्राहू रेखाप्रदः स्मृतः । इन्दोस्तनुत्रिधीच्यष्ट धर्मकर्मव्यये १-३.५.७-८-९-१०-१२ स्थितः ॥१॥
Aho! Shrutgyanam