________________
८६
। दीर्घक्लेशोऽथवेति
जन्माधानत्रिपञ्चसप्तमतारासु दीर्घक्लेशः तत्सद्भावे तु मृत्युरित्यर्थः । यल्लल्लः
ग्रहान्तरप्रातिकूल्याभावे
यद्यपि स्याबली चन्द्रस्तारा तथाप्यनिष्टदा | जन्माधाने तृतीया च पञ्चमी सप्तमी तथा ॥ १ ॥ शेषासु तु तारासु व्याधिः साध्यो नृणां भवति जातः । व्याधिवदवबोद्धव्याः सर्वारंभाश्च तारासु ॥ २ ॥
93
आरम्भ-सिद्धिः
46
अत्र यात्रादिषु चन्द्रः शुभावस्थो विलोक्यते इति रत्नमालाभाष्ये उक्तमित्यतश्चन्द्रावस्थाः प्राह -
चन्द्रावस्था प्रोषित १ हृनर मृत३
जय ४ हास ५ हर्ष ६ रति ७ निद्रा:८ । मुक्ति ९ जरा १० भय ११ सुखिता १२
राश्यंशा द्वादश यथार्थाः ।। ४९ ।।
""
व्याख्या:- - यदा यावद्घटीमानश्चन्द्रस्येष्टराशिभोगः स्यात्तदा तावान् टिप्पनकं विलोक्य निर्णेयः । यथा सामान्येन पञ्चत्रिंशदधिकशत १३५ मितस्येन्दो राशिभोगस्य द्वादशभिर्भागे एकादश घठ्यः पञ्चदश पलानि च स्युः । इष्टसमये च पञ्चत्रिंशदधिकशतमध्ये यावत्यो घट्यो भुक्ताः स्युस्तासां सपादैरेकादशभिर्भागे यल्लब्धं ता भुक्ताः, शेषाङ्गेन भुज्यमानद्वादशांशा ज्ञेयाः । अत्र च सामान्योक्तेऽप्ययं भावः:- राशौ राशौ द्वादशांशरीत्या इन्दुर्द्वादशावस्था भुङ्क्ते । उक्तं च यतिवल्लभे
66
राशौ राशौ द्वादशामूर्भुङ्क्तेऽवस्थाश्च चन्द्रमाः । द्वादशांशक्रमात्सांहिद्वचहेनाख्या सहक्फलाः " ॥ १ ॥
ततोऽयमर्थः मेषे स्थितस्येन्दोः प्रोषितात आरभ्य द्वादशावस्था गण्याः । वृषस्थस्य तु हृतातः, मिथुनस्थस्य मृतात इत्यादि यावन्मीनस्थस्य सुखितात इति लोकव्यवहारोक्तं रत्नमालाभाष्ये । यथार्था इति स्वस्वसंज्ञा सडक् फलदा इति भावः । तेन प्रोषित १ हृत २ मृत ३ निद्रा ४ जरा ५ भया ६ ख्याः षडवस्थास्त्याज्या इति नारचन्द्रटिप्पण्यां । अत एव दिनशुद्धावप्युक्तम्
p
पइरासि बारसंसा असुहाओ चए जओ सुहो विससी । आहिं होइ असुहो, सुहाहिं असुहो वि होइ सुहो" ॥ १ ॥
Aho! Shrutgyanam