________________
संप्रतिनृप
॥ १०
सि द्रुतम् । तथाप्यजल्पतस्तस्मात् स्वयमादाय वाचितः ॥ ३५५ || अन्धीयतान्नः पुत्रोऽय - मित्यालोक्याऽऽह वाहकान् । मौर्यवंशभुवां राज्ञां नाऽऽज्ञा केनापि खण्डयते ॥ ३५६ ॥ तल्लेखार्थं करिष्येऽहं, मन्त्रिणोऽथ तमभ्यधुः । कार्य देव ! पुनर्दृष्ट्वा स ऊचे किं विमर्शनैः ॥ ३५७ ॥ इत्युक्का सहसैवासौ, सुतप्तायः शलाकया । भवितव्यतयैवोक्तः, स्वयमान चक्षुषी ॥ ३५८ ॥ तच्चाकर्ण्य नृपः : सच, : पतितो दुःखसागरे । चिन्तयामास धिगहो, दुर्गमं दैववल्गितम् ॥ ३५९ ॥ अन्यथा चिन्त्यते हर्षो-च्छालमूर्छालमानसैः । जायते चाऽन्यथा : सैष, कार्यारम्भो विधेर्वशात् ॥ ३६० ॥ यदेव कुरुते दैवं तदेव भवति ध्रुवम् । इदं करिष्यते नेद- मिति चिन्ता वृथा नृणाम् ३६१ ॥ ततस्तस्य ददौ ग्रामं, राज्यमन्धी हि नाऽईति । दत्तमुज्जयिनीराज्यं तद्विमातृसुतस्य तत् ॥ ३६२ ॥ पारंपर्येण च ज्ञात्वा तद्विमातृविशृ भितम् | कुणालो हृदये दायान् दत्ते घृष्टः करोति किम ।। ३६३ ॥ अथ तत्र स्थितो ग्रामे, निःकर्माऽल्पपरिच्छदः । गतिप्रसक्तया दैवस्य, दिवसानस्ति पूरयन् ॥ ३६४ ॥ अत्रान्तरे स रेङ्कात्मा, तावड प्रभावतः । गर्भे कुणालभार्यायाः, समुत्पेदे स्फुरच्छ्रियः ॥ ३६५ ॥ मासद्वये व्यतिक्रान्ते, देवगुर्वादिपूजने । अभवद्दोहदस्तस्याः, कुणालेन च पूरितः ॥ ३६६ ॥ तनयं जनयामास, पूर्णेष्वथ दिनेषुः सा । वर्द्धितः प्रियदास्या च, कुणालः पुत्रजन्मना ॥ ३६७॥ ततो विमातुर्विफलं करोम्येष मनोरथम् । गृह्णामि तन्निजं राज्य मिति ध्यात्वा तदैव सः ॥ ३६८ ॥ कुणालो निर्ययौ प्रामात्, पाटलीपुत्रमासदत् ॥ अगायच्च तदा गोष्ठयां, राजमार्गसमीपगः ॥ ३६९ ॥ तस्यातिस्वरसौन्दर्य-रश्मिनेव नियन्त्रितः । तत्र यो यः संचचार, निःप्रचारः स सोऽभवत् ।। ३७० ॥ रञ्जितस्तद्गुणः सर्वः शशं सैकमुखो जनः । हा हा प्रभृतिका - नमस्तस्यैव शिष्यकान् ॥ ३७१ ॥ अभवचद्गुणोल्लापः सभायां भूपतेरपि । आजूहवत् तं राजापि, कौतुकं कस्य नोभुते ॥ ३७२ ॥ सोऽप्यथागत्य राजाग्रे, जवन्यन्तरितो जगौ । राजानो येन पश्यन्ति, नाङ्गिनो विकलाङ्गकान् ॥ ३७३ ॥ तस्याऽ
१ दवरिकया.
तिचरित्रम.
॥ १० ॥