________________
LOGESCH
का माप क्षिप्रं, जायते स यमातिथिः ॥ ३३६ ॥ यस्तु मुण्डितमुण्डास्यः, प्रान्ताशी मलिनांशुकः । अस्नानी मुनिवृत्यैव, वर्ततेऽत्र स जीवति ट्र ॥ ३३७ ।। तदर्थप्रत्ययायाऽथ, नरः कश्चित् सुबन्धुना । गन्धानाघ्राय सर्वाक्ष-सौख्यैरायोजितो मृतः ॥ ३३८ । सोऽथ दध्यौ धिय IN घिट मे, धीमांश्चाणिक्य एव हि। यन्मृतेनाऽपि तेनाऽह-मेचं जीरन्मृतः कृतः ॥३३९॥ मुनिवेपस्ततः स्थित्वा, नटवद्भाववर्जितः । अभव्यः IMI पातकी सोऽथ, भवेऽनन्ते भ्रमिष्यति ॥३४०। राज्ञश्च बिन्दुसारस्य, कुर्वतो राज्यमुज्ज्वला । पृथिवीतिलकाख्याया, महादेव्याः सुतोऽभवत्
॥ ३४१ ॥ सच्छायः सुमनोरम्यः, सदालिप्रियतां गतः । अशोकश्रीरशोकश्रीः, कौतुकं सफलोदयः ॥ ३४२ ॥ सोऽयाधीयन्नविश्रान्तः सङ्क्रान्तनवयौवनः यौवराज्यपदे राज्ञा, विहितो गुणवानिति ॥ ३४३ ॥ क्रमादुपरते राज्ञि, सामन्तसचिवादिभिः । स एव स्थापितो राज्ये, राज्यपूर्वहनक्षमः ॥ ३४४ ॥ कुणाल इति तस्यापि, तनुभूः पुण्यभूरभूव । जातमात्रोऽपि यः पित्रा, यौवराज्यपदे कृतः ॥ ३४५ ॥ मा भूद्विमातृफस्यास्य, विमातृभ्योऽत्र किश्चन । इत्यालोच्य च भूपालः, कुणालं पुत्रवत्सलः ॥ ३४६ ॥ चतुरङ्गचमयुतं, प्रधानामात्यसङ्गतम् । कुमारं भक्तिदत्ताया-मवन्त्यां औषयत् पुरि ।। ३४७ ॥ स्नेहातिशयतस्तत्र भूपतिः प्रतिवासरम् । स्वहस्तलिखिताब्लखान् पाहिणोति स्म सादरम् ॥ ३४८ ॥ ज्ञात्वाऽन्ये : कलायोग्य कुमारं मन्त्रिणं प्रति । अधीयतां नः पुत्रोऽय-मिति लेखेऽलिखन्नृपः ॥ ३४९ ॥ अनुद्धानाक्षरं तं चा-ऽसंवत्यैव महीपतिः । तत्रैव स्थानके मुक्का, गतवान् देहचिन्तया ॥३५०॥ राज्ञी काचिच्च तं दृष्ट्वा, दध्यौ कस्य कृते स्वयम् । लेख लिखति राजेन्दु-रेवमत्यन्तमादृतः ।। ३५१।। ततस्तं वाचययित्वा सा, राज्यमिच्छुः स्वमूनये । दत्वा बिन्दुमकारस्य तथैव तमतिष्ठिपत् ॥ ३५२ ॥ अभ्येयुपा नरेन्द्रेण, कथश्चिद् व्यग्रचेतसा । संवर्ध्याअतिवाच्यैव, लेखः मैषि विमुद्रय च ॥ ३५३ ।। कुमारोऽपि समासाद्य, तं वाचयितुमार्पयत् । वाचयित्वा मनस्येव, स तु मौनेन तस्थिवान् ।। ३५४ ॥ अयोच्यत कुमारेण, किं न वाचय.
१ मुने.
A ॐॐनाव