________________
साऽप्यवादीदभूदिदम् || २९७ ततः क्रुद्धः स चाणिक्ये न प्रायासीत् पराङ्मुखः । खलप्रवेशं विज्ञाय, चाणिक्योऽपि गृहं गतः ॥ २९८ ॥ अलं प्रत्याय्य पृथुकं, किमारब्धेन मेऽधुना । अवश्यमेव मर्त्तव्ये, मर्त्तव्यं किमशम्बलैः ॥ २९९ ॥ इति ध्यात्वा परित्यज्य, राज्यकालां निजं धनम् । चाणिक्येनौप्यताशेषं, सप्तक्षेत्र्यां सुवीजवत् ॥ ३०० ॥ अथेष्टस्वजनादीना - मौचित्येनोपकृत्य च । अनाथदीनदुःस्थानां, दानं दत्वाऽनुकम्पया ॥ ३०१ ॥ विचार्य वर्यया बुद्धया, प्रतिकारक्षमं रिपोः । पत्रकं गन्धचूर्ण च, मध्यान्मध्ये निधाय च ।। १०२ ।। गत्वा वहि:करीपान्तः, संस्थानस्थण्डिलेन वा । विधायानशनं तस्था-- विङ्गिनीमरणेच्छया ॥ ३०३ ॥ तच्चाकर्ण्य नृपो धात्र्या --ऽभ्यधायि ननु वत्स ! किं । अवज्ञातो महामात्यः, प्राणदो राज्यदव ते ॥ ३०४ ॥ तत्सर्वं तन्मुखाच्छ्रुत्वा, स्वरूपं भूपतिस्तदा । तत्र गत्वा पदोलग्न - वाणिक्यं स्माह भक्तिमान् ॥ ३०५ ॥ अज्ञानेनाऽस्यवज्ञातस्तात मा मां ततस्त्यज । पुरीषमुत्सृजत्यङ्के, डिम्भवेश्यज्यते स किम् ? ॥ ३०६ ॥ तत्प्रसीद गृहानेहि । शाधि साम्राज्यमात्मनः । स ऊचे वत्स पर्याप्तं यत्संप्रत्यनशन्यहम् ॥ ३०७ ॥ ततो राजा बलित्वाऽगा-द्वतसर्वस्ववदुदन् । हाऽभूवमकृतज्ञोऽहमिति स्वं हीलयन्मुहुः ॥ ३०८ ॥ दध्यौ सुबन्धुर्यद्येष, कथञ्श्चन निवर्त्तते । समूलका मदर्गे, कत्येव ध्रुवं ततः ॥ ३०९ ॥ विचिन्त्येति ततः साश्रु-र्नृपमूचे सगद्गदम् । देवाविमृश्यस्वेना - नर्थोऽभूदेवदेवः ॥ ११० ॥ देवाज्ञाया तदेतर्हि, साम्यनिर्मग्नचेतसः । चाणिक्यस्य सत्ययैर्भवावृद्धि करोम्यहम् ॥ ३११ ॥ ततो राजानुमत्या स, सन्ध्यायामेत्य दाम्भिकः । कृत्वाऽर्ची न्यस्य चोपान्तं, धूपाङ्गारं गतः कुधीः ॥ ३१२ ॥ चाणिक्योप्यग्निना तेन, तथ्यमानो महामनाः । भावनां भावयामास, दुष्कर्मग्रसनोरगीम् ॥ ३१३ ॥ अमेध्यमूत्रप्रस्वेद-मलदौर्गन्ध्यपिच्छले । रे जीवाऽतीवबीभत्से, वपुषि प्रेम मा कृथाः ॥ ३१४ ॥ द्वे एव पुण्यपापाख्ये, जीवेन सह गच्छतः । कृतघ्नं वपुरेतत्तु, किश्चिन्नानुव्रजत्यपि ॥३१५॥ याः सोढा नरके पूर्व-मत्युग्रा वेदनास्त्वया । सा
१ वा. २ सेवा.