________________
18 राजानं, विषमिभितमोदनम् । सहमानं सहमान, भोजयामास नित्यशः ॥ २७८ ॥ राजाऽस्ति महादेवी, धारिणी गर्भधारिणी। तस्याः | संप्रतिनृप
| समं नृपेणेक-स्थालेऽभूत् मुक्तिदोहदः ॥२७९॥ साऽथाऽभूत्तदसंपत्तौ, चन्द्रलेखेव दुर्बला। विलोक्य तादृशीं तां च, पृच्छति स्य महीपतिः । ॥८॥
॥२८०॥ किं ते न पूर्यते किश्चित् , किंवाऽऽज्ञां कोऽप्यखण्डयत् । किं केनाऽप्यभिभूता वा, यदेवं देवि ! दुर्बला ॥२८१॥ साऽवादीन्नैककोऽप्येषां हेतुः कोऽप्यस्ति किं पुनः। त्वया सहकस्थाले मे, भोक्तुं देवाऽस्ति दोहदः ॥२८२॥ राशोचे देवि! विश्वस्ता, भव श्वः पूरयिष्यते । त सहभोक्तुं बितीयेऽन्हि, तामथाजूहवन्नृपः॥२८३।। चाणिक्य: स्माहमा दास्त्वं, वत्स राश्ये स्वभौजनम् । यतस्तवाऽयमाहारः, सर्वोऽस्ति
विषमावितः ॥ २८४ ॥ ततो दिने दिनेऽप्यस्यां, मार्गयन्त्यां नृपोऽन्यदा। अनागच्छति चाणिक्ये, ददौ कवळमेककम् ॥ २८५ ॥ तं यावदति सा देवी, चाणिक्यस्तावदागतः । दृष्ट्वा च स्वादयन्ती ता-माः किं चक्रे स्ववैरिणी ।। २८६ ॥ सर्वनाशे समुत्पन्ने, बर्द्ध त्यजति पण्डितः । द्वयोः प्राप्ते विषान्मृत्यों, जीवयाम्यहमेककम् ॥ २८७ ॥ जल्पन्नित्युदरं तस्या, विदार्य क्षुरिकाकरः । रोहणोा रत्नमिव, पुत्ररत्नं तदाऽकृषत् ॥ २८८ ॥ कृत्वा घृतादिमध्ये तं, दिनान्यूनान्यपूरयन् । तज्जनन्याश्च धारिण्या, मृतकार्यमकारयत् ॥ २८९ ॥ तमश्नन्त्याच मातुस्त-द्विन्दुमूय॑पतच्छिशोः। नोदगुस्तत्मदेशेऽथ, केशाः शस्यमिवोपरे ॥ २९० ॥ अत एवाभिधां सस्य, बिन्दुसार इति व्यधुः । बर्द्धमानोऽथ सोऽधीयान् (?), शशीवाऽभूत् कलामयः ।। २९१ ॥ अन्यदोपरते राशि, बिन्दुसारोऽभवन्नृपः। वधेऽय प्रतापेन, निदाघाऽर्क इवानिशम् ॥ २९२ ॥ शिष्यमाणो मुहुः सोऽपि, धाच्या पात्रेव नित्यशः। आराधयति चाणिक्य, चन्द्रगुप्त इवापरः ॥ २९३ ॥ सुबन्धुनान्यदैकान्ते, राजोचे नन्दमन्त्रिणा। अस्थापितोऽपि मन्त्रित्वे, देव ! किश्चित् करोम्यहम् ॥ २९४ ।। पद्यप्यस्मद्विरः स्वामि-मार्घत्यत्र तथापि हि । पट्टस्यास्य हितं वक्तुं, जिव्हा कण्डूयते मम ॥ २९५ ॥ य एष देव ! चाणिक्यो, मन्त्रीशोऽस्त्यविदारुणः। विदार्योदरमेतेन, भवन्माताऽप्यमार्यत ॥२९६॥ततः स्वात्माऽपि यत्नेन, रक्षणीयस्त्वया नृप!। सोऽय पप्रच्छ तजामों,
पितच्छियो । नादापुस्तम दिनान्यूनान्यपूरयन् तज्जनन्यस्या, चिदार्थ परिक
॥८॥