________________
यशोवि.
॥ ४४ ॥
वैशेषिको वापि नानेकांतं प्रतिक्षिपेत् ॥ ४७ ॥ प्रत्यक्ष मितिमात्रंशे मेयांशे तलिकणम् ॥ गुरुर्ज्ञानं वदन्नेकं नानेकांतं प्रतिक्षिपेत् ॥ ४८ ॥ जातिव्यक्त्यात्मकं वस्तु वदन्ननुवोचितम् ॥ नट्टो वापि मुरारिर्वा नानेकांतं प्रतिक्षिपेत् ॥ ४५ ॥ अबद्ध परमार्थेन बद्धं च व्यवहारतः ॥ ब्रुवाणो ब्रह्मवेदान्ती नानेकांतं प्रतिक्षिपेत् ॥ ५० ॥ ब्रुवाणा भिन्नभिन्नार्थान्नयनेदव्यपेक्षया ॥ प्रतिक्षिपेयुर्नो वेदाः स्याद्वादं सार्वतांत्रिकम् ॥ २१ ॥ विमतिः संमतिर्वापि चार्वाकस्य न मृग्यते ॥ परलो कात्ममोक्षेषु यस्य मुह्यति शेमुषी ॥ ५२ ॥ तेनानेकान्तसूत्रं यद्यघा सूत्रं नयात्मकम् ॥ तदेव तापशुद्धं स्यान्न तु दुर्नयसं| शितम् || ३ || नित्यैकान्ते न हिंसादि तत्पर्यायापरिक्ष्यात् ॥ मनःसंयोगनाशादौ व्यापारानुपसंनतः ॥ ५४ ॥ बुद्धिलेपो| sपि को नित्य निर्लेपात्मव्यवस्थितौ ।। सामानाधिकरण्येन बंधमोक्षौ हि संगतौ ॥ २५ ॥ नित्यैकान्तपक्षेऽपि हिंसादिकमसंगतम् ॥ स्वतो विनाशशीलानां क्षणानां नाशकोऽस्तु कः ॥ ५६ ॥ श्रानन्तर्य क्षणानां तु न हिंसादिनियामकम् ॥ विशेषादर्शनात्तस्य बुद्धलुब्धकयोर्मिथः ॥ ७ ॥ संक्लेशेन विशेषश्चेदानन्तर्यमपार्थकम् ॥ न हि तेनापि संक्लिष्टमध्ये नेदो | विधीयते ॥ २८ ॥ मनोवाक्काययोगानां भेदादेवं क्रियाजिदा ॥ समत्रैव विशीर्येतेत्येतदन्यत्र चर्चितम् ॥ २ ॥ नित्यानि - त्याद्यनेकान्तशास्त्रं तस्मादिशिष्यते ॥ तद्दृष्ट्यैव हि माध्यस्थ्यं गरिष्ठमुपपद्यते ॥ ६० ॥ यस्य सर्वत्र समता नयेषु तनयेष्विव ॥ तस्यानेकान्तवादस्य क्व न्यूनाधिकशेमुषी ॥ ६१ ॥ स्वतंत्रास्तु नयास्तस्य नांशाः किं तु प्रकल्पिताः ॥ रागद्वेषौ कथं तस्य दूषणेऽपि च भूषणे ॥ ६२ ॥ श्रर्थे महेन्द्रजालस्य दूषितेऽपि च भूषिते । यथा जनानां माध्यस्थ्यं दुर्नयार्थे । तथा मुनेः ॥ ६३ ॥ दूषयेद एवोच्चैः स्याघादं न तु पंकितः ॥ प्रलापे सुझानां न द्वेषः करुणैव तु ॥ ६४ ॥ त्रिविधं
|
१ प्रत्यक्षं मितमात्रंशे इति प्रत्यंतरे ।
अधिकार.
॥ ४४ ॥