SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ संबंधान्मुक्तस्यापि न मुक्तता ॥ योगानां बंध हेतूनामपुनर्जवसंजवात् ॥ १५ ॥ सुखस्य तारतम्येन प्रकर्षस्यापि संजवात्॥ अनंतसुखसंवित्तिर्मोक्षः सिध्यति निर्भयः ॥ ७६ ॥ वचनं नास्तिकानानामात्मसंत्तानिषेधकम् ॥ प्रांतानां तेन नादेयं पर| मार्थगवेषिणा ॥ 99 ॥ न मोक्षोपाय इत्याद्दुरपरे नास्तिकोपमाः ॥ कार्यमस्ति न हेतुश्चेत्येषा तेषां कदर्थना ॥ ७८ ॥ श्राक| स्मादेव जवतीत्यलीकं नियतावधेः ॥ कादाचित्कस्य दृष्टत्वाद्वभाषे तार्किकोऽप्यदः ||१९|| हेतुभूति निषेधो न स्वानुपाख्या| विधिर्न च ॥ स्वनाववर्णना नैवमवधेर्नियतत्वतः ॥ ८० ॥ न च सार्वत्रिको मोक्षः संसारस्यापि दर्शनात् ॥ न चेदानीं न तघयक्तिर्व्यजको हेतुरेव यत् ॥ १ ॥ मोक्षोपायोऽस्तु किंत्वस्य निश्चयो नेति चेन्मतम् ॥ तन्न रत्नत्रयस्यैव तथा नाव| विनिश्चयात् ॥ ८२ ॥ जवकारणरागादिप्रतिपक्षमदः खलु ॥ तद्विपक्षस्य मोक्षस्य कारणं घटतेतराम् ॥ ८३ ॥ अथ रक्षत्र्यप्राप्तेः प्राक्कर्म्मलघुता यथा ॥ परतोऽपि तथैव स्यादिति किं तदपेक्षया ॥ ८४ ॥ नैवं यत्पूर्वसेवैव मृघी नो साधन| क्रिया ॥ सम्यक्त्वादिक्रिया तस्मादू दृढैव शिवसाधने ॥ ८५ ॥ गुणाः प्रादुर्भवत्युच्चैरथवा कर्मखाघवात् ॥ तथाजन्यतया तेषां कुतोऽपेक्षा निवारणम् ॥ ८६ ॥ तथाजन्यतयादेपाहुणा न च न हेतवः ॥ अन्योन्यसहकारित्वाद् दंडचक्रप्रमादिवत् ॥ ८७ ॥ ज्ञानदर्शन चारित्राण्युपायास्तप्रवक्ष्ये ॥ एतन्निषेधकं वाक्यं त्याज्यं मिथ्यात्ववृद्धिकृत् ॥ ८० ॥ मिथ्यात्वस्य | पदान्येतान्युत्सृज्योत्तमधीधनः ॥ जावयेत्प्रातिलोम्येन सम्यक्त्वस्य पदानि षट् ॥ ८ ॥ ॥ ॥ इति मिथ्यात्वत्यागाधिकारः ॥ १३ ॥ ॥ मिथ्यात्वदावानलनी रवाहमस इत्यागमुदाहरति ॥ अतो रतिस्तत्र बुधैर्विधेया विशुद्धभावैः श्रुतसारवह्निः ॥ १ ॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy