________________
ज्ञान
॥ १६१ ॥
स्थित्युवेदापत्तेः । न च "जुगवं दो एत्थि उवढंगा" इत्यस्योपयोगयोर्युगपत्पत्तिनिषेध एव तात्पर्य, न तु युगपदवस्थानेऽपीत्युपयोगघ्यधाराणां नाशकारणाभावेन सहावस्थानेऽपि न दोष इति सांप्रतं, श्रक्रमवादिनाप्येवं क्रमावलिनोपयोगघययौगपद्य निषेधपरत्वस्य वक्तुं शक्यत्वात्, सूत्रासंकोचस्वारस्यादरे यदेव ज्ञानं तदेव दर्शन मित्यस्मयुक्तस्यैव युक्तत्वादिति दिकू । | मतिज्ञानमेवावग्रहात्मना दर्शनं, श्रपायात्मना च ज्ञानमिति यदुक्तं दृष्टान्तावष्टंभार्थमेकदेशिना तदूषयन्नाह - " जइ उग्गह मित्तं दंसणं ति मासि विसेसिया नाणं । मइनाणमेव दंसणमेवं सइ होइ पिप्पन्नं ॥ २१ ॥ " यदि मतिरेवावग्रहरूपा दर्शनं, | विशेषिता ज्ञानमिति मन्यसे, तदा मतिज्ञानमेव दर्शनमित्येवं सति प्राप्तं । न चैतद्युक्तं, “स द्विविधोऽष्टचतुर्भेद ” इति सूत्र विरोधान्मतिज्ञानस्याष्टाविंशतिजेदो क्तिविरोधाच्च --" एवं सेसिंदियदंसणं मि पियमेण होइ ण य जुत्तं । श्रह तत्थ ना - | मित्तं खे (घ) प्पइ चरकुंमि वि तहेव ॥ २२ ॥” एवं शेषेन्द्रियदर्शनेष्वप्यवग्रह एव दर्शनमित्यभ्युपगमेन (गमे नियमेन ) मतिज्ञानमेव तदिति स्यात्, तच्च न युक्तं, पूर्वोक्तदोषानतिवृत्तेः । श्रथ तेषु श्रोत्रादिष्विन्द्रियेषु दर्शनमपि नवज्ज्ञानमेव गृह्यते, मात्रशब्दस्य दर्शनव्यवच्छेदकत्वात्, तघयवच्छेदश्च तथाव्यवहाराभावात्, श्रोत्रज्ञानं घ्राणज्ञानमित्यादिव्यपदेश एव हि तत्रोपलभ्यते, न तु श्रोत्र दर्शनं घ्राणदर्शन मित्यादिव्यपदेशः कचिदागमे प्रसिद्धः तर्हि चक्षुष्यपि तथैव गृह्यतां चक्षुर्ज्ञानमिति, छाथ तत्र दर्शनं, इतरत्रापि तथैव गृह्यतां युक्तेस्तुल्यत्वात् । कथं तर्हि शास्त्रे चक्षुर्दर्शनादिप्रवाद इत्यत आह- "नामपुडे (जो) श्रावि|सए अत्यंमि दंसणं होई । मुत्तूण लिंग जं श्रागयाई य विसएसु ॥ २३ ॥ " अस्पृष्टेऽर्थे चक्षुषा य उदेति प्रत्ययः स ज्ञानमेव सच्चक्षुर्दर्शनमित्युच्यते, इन्द्रियाणामविषये च परमाण्वादावर्थे मनसा य उदेति प्रत्ययः स ज्ञानमेव सदचकुदर्शन
बिन्दुः
॥ १६१