SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ संशयादीनामपि ज्ञानत्वस्य महाभाष्यकृता परिभाषितत्वात् । न च सम्यक्त्वसाहित्येन ज्ञानस्य रुचिरूपत्वं संपद्यते, रुचिरूपं च ज्ञानं प्रमाणमिति सम्यक्त्व विशेषणोपादानं फलवदित्यपि सांप्रतम्, एतस्य व्यवहारोपयोगित्वेऽपि प्रवृ| त्त्यनुपयोगित्वात् । न च घटाद्यपायरूपा रुचिरपि सम्यक्त्वमिति व्यवहरन्ति सैद्धान्तिकाः, जीवाजीवादिपदार्थनवक विषयकसमूहालंबनज्ञान विशेषस्यैव रुचिरूपतयाम्नातत्वात्, केवलं सत्संख्यादिमार्गणास्थानैस्त निर्णयो नावसम्यक्त्वं, सामान्यतस्तु अव्यसम्यक्त्वमिति विशेष इति । न च घटाद्यपायेऽपि रुचिरूपत्वमिष्टमेव सदसद्विशेषणा विशेषणा दिना | सर्वत्र ज्ञानाज्ञानव्यवस्थाकथनात्, तदेव च प्रामाण्यमप्रत्यूहमिति वाच्यं, अनेकान्तव्यापकत्वादिप्रतिसंधाना हितवासनावता|मेतादृशबोधसंजवात्, तदन्येषां तु द्रव्यसम्यक्त्वेनैव ज्ञानसङ्गावव्यवस्थितेः । अत एव चरणकरणप्रधानानामपि स्वसम - | यपरसमयमुक्तव्यापाराणां प्रव्यसम्यक्त्वेन चारित्रव्यवस्थितावपि नावसम्यक्त्वाभावः प्रतिपादितः संमतौ महावादिना द्रव्यसम्यक्त्वं च, "तदेव सत्यं निःशंकं यजिनेन्द्रैः प्रवेदितमिति” ज्ञानाहितवासनारूपं, माषतुषाद्यनुरोधानुरुपारतंत्र्यरूपं | वेत्यन्यदेतत् । तस्मान्नैते प्रामाण्यप्रकाराः प्रवृत्त्योपयोगिकाः । तति तत्प्रकारकत्वरूपं ज्ञानप्रामाएयं तु प्रवृत्त्यौपयिकमवशिष्यंते, तस्य च स्वतो ग्राह्यत्वमेवोचितम् । न्यायनयेऽपि ज्ञाने पुरोवर्तिविशेष्यताकत्वस्य रजतत्वादिप्रकारकत्वस्य चानुव्यवसायग्राह्यतायामविवादात्, इमं रजतत्वेन जानामीति प्रत्ययात्, तत्र विशेष्यत्वप्रकारत्वयोरेव द्वितीयातृतीयार्थत्वात्, तत्र | पुरोवर्ति इदंत्वेन रजतत्वादिनापि चोपनयवशाद्भासतां । न चेदंत्ववैशिष्ट्यं पुरोवर्तिनि न जासत इति वाच्यं, विशेष्यतायां पुरोवर्तिनः स्वरूपतो जानानुपपत्तेः तादृशविशेषाज्ञानाभावात्, अन्यथा प्रमेयत्वादिना रजतादिज्ञानेऽपि तथाज्ञानापत्तेः,
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy