________________
| तिकपदेनापि क्रमेणार्थघ्यबोधनादन्यतरत्वादिना कथञ्चिदुमयबोधनेऽपि प्रातिस्त्रिकरूपेणैकपदानयबोधस्य ब्रह्मणापि | डुरुपपादत्वात् । स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपधिधिनिषेधकल्पनया च पञ्चमः । स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधक पनया युगपद्विधिनिषेधकल्पनया च षष्ठः । स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति विधिनिषे|धकट्टपनया युगपद्विधिनिषेधकल्पनया च सप्तम इति । सेयं सप्तजंगी प्रतिजंगं सकलादेशस्वभावा विकलादेशस्वनावा च । तत्र प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिनिरजेदवृत्तिप्राधान्यादंनेदोपचाराघा यौगपद्येन प्रतिपादकं वचः सक| लादेशः । नयविषयीकृतस्य वस्तुधर्मस्य जेदवृत्तिप्राधान्याने दोपचाराघा क्रमेणानिधायकं वाक्यं विकखादेशः । ननु कः क्रमः, किं वा यौगपद्यं ? उच्यते - यदास्तित्वादिधर्माणां कालादिनिर्भेदविवक्षा तदैकशब्दस्यानेकार्थप्रत्यायने शक्त्यभावात् क्रमः । यदा तु तेषामेव धर्माणां कालादिनिरभेदेन वृत्तमात्मरूपमुच्यते तदैकेनापि शब्देनैकधर्मप्रत्यायनमुखेन तदात्मक | तामापन्नस्यानेकाशेषरूपस्य वस्तुनः प्रतिपादनसंवाद्यौगपद्यं । के पुनः कालादयः ? उच्यते - काल आत्मरूपमर्थः संबन्ध | उपकारः गुणिदेशः संसर्गः शब्द इत्यष्टौ । तत्र स्याङ्जीवादि वस्त्वस्त्येव । तत्र यत्कालमस्तित्वं त एव कालाः शेषानन्तधर्मा वस्तुन्येकत्रेति तेषां कालेनाभेदवृत्तिः । यदेव चास्तित्वस्य तगुणत्वमात्मरूपं तदेवान्यानन्तगुणानामपीत्यात्मरूपेणानेदवृत्तिः । य एव चाधारोऽर्थो व्याख्योऽस्तित्वस्य स एवान्यपर्यायाणामित्यर्थेनाजेदवृत्तिः । य एव चाविष्वग्नावः संबन्धो | sस्तित्वस्य स एवान्येषामिति संबन्धेनाभेदवृत्तिः । य एव चोपकारोऽस्तित्वेन स्वानुरक्तत्वकारणं स एवान्यैरपीत्युपकारेणानेदवृत्तिः । य एव गुणिनः, संबन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य स एवान्येषामिति गुणिदेशेनाभेदवृत्तिः । य एव चैकव