________________
॥ अथ जैन तर्कपरिभाषा प्रारभ्यते ॥
ऐन्द्रवृन्दनतं नत्वा जिनं तत्त्वार्थदेशिनम् । प्रमाणनय निचेपैस्तर्कभाषां तनोम्यहम् ॥ १ ॥
तत्र स्वपरवसायि ज्ञानं प्रमाणम् । स्वमात्मा ज्ञानस्यैव स्वरूपमित्यर्थः । परस्तस्मादन्योऽर्थ इति यावत् । तौ व्यवस्यति यथास्थितत्वेन निश्चिनोतीत्येवंशीलं स्वपरव्यवसायि । श्रत्र दर्शनेऽतिव्याप्तिवारणाय ज्ञानपदम् । संशय विपर्ययानध्यवसायेषु तधारणाय व्यवसायिपदम् । परोक्षबुद्ध्या दिवादिनां मीमांसकादीनां बाह्यार्थापनापिनां ज्ञानाद्यषैतवादिनां च मतनिरासाय स्वपरेति स्वरूपविशेषणार्थमुक्तम् । ननु यद्येवं सम्यग्ज्ञानमेव प्रमाणमिष्यते तदा किमन्यत्तत्फलं वाच्यमिति चेत्सत्यं || स्वार्थव्यवसितेरेव तत्फलत्वात् । नन्वेवं प्रमाणे स्वपरव्यवसायित्वं न स्यात्, प्रमाणस्य परव्यवसायित्वात् फलस्य च स्वव्यवसायित्वादिति चेन्न, प्रमाणफलयोः कथंचिदनेदेन तदुपपत्तेः । इत्थं चात्मव्यापाररूपमुपयोगेन्द्रियमेव प्रमाणमिति स्थितम् । न ह्यव्यापृत श्रात्मा स्पर्शादिप्रकाशको जवति, निर्व्यापारेण कारकेण क्रियाजननायोगात् मसृणतूलिकादिसन्निक र्षेण सुषुप्तस्यापि तत्प्रसंगाच्च । केचित्तु - " ततोऽर्थग्रहणाकारा शक्तिर्ज्ञान मिहात्मनः । करणत्वेन निर्दिष्टा न विरुद्धा कथञ्चन ॥ १ ॥” इति लब्धीन्द्रियमेवार्थग्रहणशक्तिलक्षणं प्रमाणं संगिरन्ते, तदपेशलं, उपयोगात्मना करणेन लब्धेः फले व्यवधानात्, शक्तीनां परोक्षत्वाच्युपगमेन करणफलज्ञानयोः परोक्षप्रत्यक्षत्वाभ्युपगमे प्राभाकरमतप्रवेशाच्च । अथ ज्ञान| शक्तिरप्यात्मनि स्वाश्रये परिच्छिन्ने प्रव्यार्थतः प्रत्यक्षेति न दोष इति चेन्न अव्यधारा प्रत्यक्षत्वेन सुखादिवत् स्वसंविदित