________________
च तत्त्वार्थनाष्ये धात्वर्थबाधतः॥४०॥ जीवोऽजीवश्च नो जीवो नोयजीव इतीहिते । जीवः पंचस्वपि गतिष्विष्टो नावैर्हि पंचनिः॥४१॥ नजि सर्वनिषेधार्थे पर्युदासे च संश्रिते । पुजसप्रतिव्यमजीव इति संशितम् ॥४॥ नोजीव इति नोशब्दे जीवसर्वनिषेधके । देशप्रदेशी जीवस्य तस्मिन् देशनिषेधके ॥४३॥ जीवो वा जीवदेशो वा प्रदेशो वाप्यजीवगः । श्रनयैव दिशा शेयो नोअजीवपदादपि ॥ ४ ॥ नैगमो देशसंग्राही व्यवहारर्जुसूत्रको । शब्दः समनिरूढश्चेत्येवमेव प्रचदते ॥ ४५ ॥ जावमौदयिकं गृह्णन्नेवंचूतो नवस्थितम् । जीवं प्रवक्त्यजीवं तु सिर्छ वा पुजवादिकम् ॥६॥ नोअजीवश्च नोजीवो न जीवाजीवयोः पृथक् । देशप्रदेशौ नास्येष्टाविति विस्तृतमाकरे ॥ ७॥ सियो निश्चयतो जीव इत्युक्तं यदिगंबरैः । निराकृतं तदेतेन यन्नयेऽन्त्येऽन्यथा प्रथा ॥४०॥ श्रात्मत्वमेव जीवत्वमित्ययं सर्वसंग्रहः। जीवत्वप्रतिनूः सिद्धेः साधारण्यं निरस्य न ॥ ए॥ यजीवत्वं क्वचिद्रव्यनावप्राणान्वयात् स्मृतम् । विचित्रनगमाकूतं तज्ज्ञेयं न जीवः,अजीवः, नोजीवः,नोअजीवः,एपा लक्षणानि-औदायिकक्षायिकक्षायोपशमिकौपशमिकपारिणामिकलक्षणैः पंचभिर्लक्षितो जीवः॥४१॥नभि सर्वत्र निषेधार्थेऽत्राजीवः पुद्गलादिकं द्रव्यम्॥४२॥नोजीव इत्यत्र तु नोशब्दे देशनिषेधके जीवस्य देशप्रदेशौ अंगीकर्तव्यौ॥४३॥नोअजीवो नोशब्दे देशनिषेधकेऽजीवदेशो वा अजीवः अजीवाश्रितः प्रदेशो वा इति। अत्रनअभावार्थःनोशब्दस्यत्वभावएकदशोवा इत्यर्थः।पुनर्विपरीतोऽप्यों नोजीवो नोशब्दे सर्वनिषेधके विवक्षितेऽजीव एव कथ्यते तृतीयभंगे।एवं नोअजी. | वपदाजीवो जीवपदार्थों वा बोध्य इति चतुर्थभंगे । अयं भावार्थ:-जीवः, अजीवः पुद्गलादिकं द्रव्यं, नोजीवोऽजीवो जीवस्य देशप्रदेशौ वा, नोअजीबो जीबो जीवदेश जीवप्रदेशो वा अजीवदेशो वा अजीवप्रदेशो वा इति॥४४॥उक्तं मतं कियन्तां नयानामाह देशसंग्राही ॥४५॥ एवंभूतो भवस्थितं संसारिणं जीवं प्रवक्ति, सिद्धं पुद्गलादिकं | चाजीवं प्रवक्ति॥४६॥नोजीवो नोअजीवश्चैतन्नये एवंभूते जीवाजीवयोर्वक्तव्ययोः सतोर्न पार्थक्यमापद्यते, यतोस्य नयस्य देशप्रदेशौ नेष्टी इति नोशन्दः सर्वनिषेधार्थ एव | | घटत इत्येतदाकरेऽनुयोगद्वारादौ विस्तृतम्॥४७॥इत्येतेन पूर्वोतन सिद्धो निश्चयतो जीव इति यद्दिगंबरैरुक्तं तन्निराकृतं, यस्मादन्त्ये एवंभूतनयेऽन्यथा प्रथा सिद्धोऽजीव इत्येव प्रसिद्धिः, शुद्ध निश्चयश्च सएवेति ॥ ४८ ॥ आत्मखमेव जीवलं निश्चयान्न साधारण्यम् ॥ ४९ ॥ एवं निश्चयतः सिद्धस्याजीवलं प्रोक्तं तर्हि कथं-" जीवा मुत्ता