________________
॥ अथ नयरहस्यप्रकरणम् ॥
ऐन्द्रश्रेणिनतं नत्वा वीरं तत्त्वार्थदेशिनम् ॥ परोपकृतये ब्रूमो रहस्यं नयगोचरम् ॥
प्रकृतवत्वंशग्राही तदितरांशाप्रतिक्षेपी अध्यवसाय विशेषो नयः । दुर्नयस्याप्यधिकृतांशाप्रतिक्षेपित्वात्तत्रातिव्याप्तिवारणाय प्रकृतवस्त्वंशग्राहीति । एवं च तत्पदे तन्निन्नप्रतिपंथिधर्मोपस्थिते न दोषः । प्रकृतवस्त्वंशग्राहित्वमपि पुर्नयेऽतिव्याप्तमेवेति तदितरांशाप्रतिक्षेपीति । सप्तभंगात्मकशब्दप्रमाणप्रदीर्घ सन्तताध्यवसायैकदेशेऽतिव्याप्तिवारणायाध्यवसायपदम् । रूपादिग्राहिणि रसाद्यप्रतिके पिष्यपायादिप्रत्यक्षप्रमाणेऽतिव्याप्तिवारणाय विशेषपदम् । नयाः प्रापकाः साधका निवर्तका निर्मासका उपलंजका व्यञ्जका इत्यनर्थान्तरमिति जाष्यम् । अत्र प्रापकत्वं प्रमाणप्रतिपन्नप्रतियोगिप्रतियोगिमनावापन्ननानाधर्मैकतरमात्रप्रकारकत्वम् । साधकत्वं तथाविधप्रतिपत्तिजनकत्वम् । निवर्तकत्वम निवर्तमान निश्चितस्वानि प्रायकत्वम् । निर्जासकत्वं शृंगग्राहिकया वस्त्वंशज्ञापकत्वम् । उपलंजकत्वं प्रतिविशिष्टक्षयोपशमापेक्षसूक्ष्मार्थावगाहित्वम् । व्यञ्जकत्वं च प्राधान्येन स्वविषयव्यवस्थापकत्वम् । एवं च पदार्थ प्रतिपादयन्नपि जाष्यकारस्तत्त्वतो लक्षणान्येव सूत्रितवान् । यद्येवं नयानामध्यवसायरूपता, कथं तर्हि "जवएसो सो एवं पाम सि” सत्यं, नयजन्योपदेशे नयपदोपचारात् । तथाप्येते तंत्रान्तरीयाः, स्वतंत्रा वा चोदकपक्षप्राहिणो मतिभेदेन विप्रधाविता, उज्जयथापि मिध्यात्वमिति चेन्न, प्रमापापेक्षत्वेनैतेषामुत्प्रयवैलक्षण्यात् । स्वविषयप्राधान्यरूपस्वतंत्रतायाश्च मिथ्यात्वाप्रयोजकत्वात् । गौणत्वमुख्यत्वयोर्हस्वत्वदी