________________
अध्यात्मि.
॥ ६९ ॥
तथा । गात्रसंकुचने चेष्टं तेन पूर्व प्रमार्जनम् ॥ २ ॥” तथा च "सन्ति संपातिमाः सत्वाः सूक्ष्माश्च व्यापिनोऽपरे । तेषां रक्षानिमित्तं च विज्ञेया मुखवस्त्रिका ॥ १ ॥ किं च- नवन्ति जन्तवो यस्मादन्नपानेषु केषुचित् । तस्मात्तेषां परीक्षार्थी पात्रग्रहणमिष्यते ॥ १ ॥ अपरं च सम्यक्त्वज्ञानशीखानि तपश्चेतीह सिद्धये । तेषामुपग्रहार्थाय स्मृतं चीवरधारणम् ॥ १ ॥ शीतवातातपैर्दशैर्मशकैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यानं न सम्यक् संविधास्यति ॥ २ ॥ तथा वस्त्राभावे शीतातपदंशमशका दिपी माव्याकुलितस्याग्निसेवा दिदुर्ध्यान संजवे संयमविराधना स्यात् । तथा पात्राभावे बासग्लानादीनां वैयावृत्यमपि कुतो जवेत् । यः पुनरतिसहिष्णुतया एतदन्तरेणापि न धर्मबाधकस्तस्य नैतदस्ति । तथा चाहय एतान् वर्ज - येद्दोषान् धर्मोपकरणादृते । तस्य त्वग्रहणं युक्तं यः स्याविन इव प्रभुः ॥ १ ॥ स च प्रथमसंनन एव न वेदानीं तद| स्तीति कारणाभावात्कार्यस्याप्यभावः तस्माद्यथा संयमोपग्रहार्थ नैदादिकं गृह्यते एवं वस्त्रादिधारणमप्युचितमेवे" त्यादियुक्त्या प्रज्ञाप्यमानोऽप्यसौ तथाविधकषायमोहनीयकर्मोदयान्न स्वकदाग्रहाभ्यवर्तत किं तु चीवरादिकं त्यक्त्वा निर्गतः । ततश्च वहिरुद्याने स्थितस्य तस्य वंदनार्थमुत्तरानाम्नी जगिनी समागता । सा च तथाविधं स्वं चातरमवलोक्य स्वयमपि चीवराणि त्यक्तवती । ततो जिकार्य नगरमध्ये प्रविष्टा सा गणिकयाऽवलोकिता । तत “एवंविधामपि बीजत्सामिमां दृष्ट्वा नागरिकसोको मास्मासु विरंसीदिति" विचित्य तया परिधापितासौ । तत एष व्यतिकरोऽनया शिवभूतये निवे|दितस्ततोऽनेन "विवस्त्रा योषिन्नितरां बीजत्सा जवतीति" विचिंत्य तां प्रत्युक्तम् - " इत्थमेव त्वं तिष्ठ एतघखं त्वया न त्यक्तव्यं, देवतया हि तवेदं प्रदत्तमिति” । ततः शिवभूतिना कौमिन्य कौट्टवीरौ दीक्षितौ तान्यामाचार्यशिष्यलक्षणा
परीक्षा
॥ ६५ ॥