________________
श्रध्यात्मि 11 49 11
टीका - श्रप्रमत्तस्य मूरहितस्य शरीरवत्यात्रधरणेऽपि न कोऽपि दोषः । यथा पात्रं मूजनकमेवं शरीरमपि मूर्छा - जनकं सुप्रतीतमेव । ततश्च शरीरे यदि न मोहस्तर्हि पात्रादावपि कौतस्कुत इति न पात्रादिकारण विरोधः । श्रथ मोहलक्षणकारण विरोधं परिजिहीर्षन्नाह - गतीति स कवलाहारो मोहोत्यो मोहजन्यो न जवति गत्यादिवत् कवलाहारो हि अस्मदादिषु मोहपूर्वक एव दृश्यत इति कृत्वा केवलिनि तदभावोऽभ्युपगम्यते । तथा च गत्यादीन्यपि श्रस्मदादिषु मोहसहकृतान्येवोपलभ्यन्त इति केवलिनो मोहाजावेन तदभावस्याप्यशक्यपरिहारत्वात्कुतस्तीर्थप्रवृत्तिः । तथा यथा गत्यादिकर्मैव गत्यादीनां कारणं न मोहस्तथा तथाविधाहारपर्याप्तिनामकर्मोदयसहकृतो वेदनीयोदय एव कवलाहारस्य कारणं न मोह इत्यपि प्रतिपद्यताम् । तथा च श्रीरत्नाकरावतारिकायां रत्नप्रजाचार्याः - " तथाविधाहारपर्याप्तिनामकर्मोदयवेदनी| योदयप्रबलप्रज्वलदौदर्यज्वलनोपतप्यमानो हि पुमानाहारमाहारयतीति" न मोहलक्षणकारण विरोधः । अथ ध्यानविघ्नलक्षणं कार्यविरोधं निरस्यति न चेति । तदा शैलेशी करणात्माक् ध्यानं सूक्ष्म क्रियानिवृत्तिसंज्ञकं शुक्लध्यानतृतीयपादलक्षणं नेष्यते नान्युपगम्यते सैद्धान्तिकै रिति शेषः इति न ध्यानविघ्नलक्षणकार्यविरोधः । श्रथ चतुर्थपंचमपक्षे' दूषयति पुनले ति । शरीरस्य हि वृद्धिः पुजलोपचयानवति । न चाहाराजावादेव तदभावसिद्धिरिति अन्योऽन्याश्रयापातात् तस्माद्वृविलक्षणकार्यविरोधोऽपि न भवति । तथौदा रिकशरीरिणामित्येतेन तदभिमतं परमौदा रिकत्वं निरस्तं । तन्निरासस्त्वग्रे स्फुटीक रिष्यते । तदेवं पूर्वोक्ता दिगंबर विकल्पाः श्वेतांबर सिद्धान्तवचनैरत्यंतं कदर्शिताः क्षणमप्युव सितुमशक्ताः स्वयमेव पंचत्वं
१ पक्षौ
परीक्षा.
॥ ए७ ॥