SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ अस्य सर्व ब्रह्मेति यो वदेत् ॥ महानरकजालेषु स तेन विनियोजितः ॥ ५० ॥ तेनादौ शोधयेच्चित्तं सविकल्पैर्ब्रतादिनिः ॥ यत्कामादिविकाराणां प्रतिसंख्याननाश्यता ॥ ५१ ॥ विकट्परूपा मायेयं विकटुपेनैव नाश्यते । अवस्थान्तरभेदेन तथा चोक्तं परैरपि ॥ ५२ ॥ अविद्ययैवोत्तमया स्वात्मनाशोद्यमोत्थया ॥ विद्या संप्राप्यते राम सर्वदोषापहारिणी ॥ ५३ ॥ शाम्यति स्त्रमस्त्रेण मसेन दाव्यते मलः ॥ शमं विषं विषेणैति रिपुणा हन्यते रिपुः ॥ ५४ ॥ ईदृशी जूतमायेयं या | स्वनाशेन हर्षद ॥ न लक्ष्यते स्वभावोऽस्याः प्रेक्ष्यमाणैव नश्यति ॥ ५५ ॥ व्रतादिः शुभसंकल्पो निर्नाश्याशुनवासनाम् ॥ दाह्यं विनैव दहनः स्वयमेव विनश्यति ॥ ५६ ॥ इयं नैश्चेयिकी शक्तिर्न प्रवृत्तिर्न वा क्रिया ॥ शुभसंकल्पनाशार्थं योगिनामुपयुज्यते ॥ २७ ॥ द्वितीयापूर्वकरणे क्षायोपशमिका गुणाः ॥ क्षमाद्या श्रपि यास्यंति स्थास्यति क्षायिकाः परम् ॥५८॥ इत्थं यथाबलमनुद्यममुद्यमं च कुर्वन् दशानुगुणमुत्तममान्तरार्थे ॥ चिन्मात्र निर्भर निवेशितपक्षपातः प्रातर्युरत्नमिव दीप्तिमुपैति योगी ॥ ९७ ॥ अन्यस्य तु प्रविततं व्यवहारमार्ग प्रज्ञापनीय इह सद्गुरुवाक्यनिष्ठः ॥ चिद्दर्पणप्रतिफल त्रिजगधिवर्ते वर्तेत किं पुनरसौ सहजात्मरूपे ॥ ६० ॥ जवतु किमपि तत्त्वं बाह्यमान्यंतरं वा हृदि वितरति साम्यं निर्मल श्चिधि| चारः ॥ तदिह निचितपंचाचारसंचारचारुस्फुरितपरमनावे पक्षपातोऽधिको नः ॥ ६१ ॥ स्फुटमपरमजावे नैगमस्तारतम्यम् प्रवदतु न तु हृष्येत्तावता ज्ञानयोगी ॥ कलितपरमनावं चिचमत्कारसारम् सकलनय विशुद्धं चित्तमेकं प्रमाणम् ॥ ६२ ॥ हरिरपरनयानां गर्जितैः कुञ्जराणाम् सहजविपिनसुप्तो निश्चयो नो विनेति ॥ अपि तु जवति लीलोजिजूंनोन्मुखेऽस्मिन् गलितमदनरास्ते नोम्बसंत्येव जीताः ॥ ६३ ॥ कलितविविधबाह्यव्यापकोलाहलौघव्युपरमपरमार्थे जावनापावनानाम् ॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy