________________
मलय
चरित्रं
॥९३॥
* कथयामास श्रूयतामग्रतः प्रिये । कार्यसिद्धिकृते यद्यन्मयात्र विहितं निशि ॥ ४ ॥ युग्मं ॥ कृत्वा
सायं पुरो राज्ञो मंत्रसाधनकैतवं । किंचिद्रविणमादाय निर्गतोऽहं नृपांतिकात् ॥ ५॥ गृहीत्वा तेन * वित्तेन तक्षोपकरणादिकं । कर्पूरवर्णकाद्यं च गतो भट्टारिकागृहं ॥ ६॥ ये अंतःशुषिरे दृष्टे तदो
व्यों काष्टफालिके । रमणीयतमे कामं तक्षित्वा ते मया कृते ॥७॥ तयोर्मध्ये मया नष्टाः कीलि. | * काश्च विनिर्मिताः । ऊर्ध्वभागे तथा चैका गूढा यंत्रप्रयोगतः ॥ ८॥ इतश्च तस्कराः केऽपि * आदाय मंजूषामिह । समागताश्च वेगेन भयाकुलशरीरिणः ॥ ९॥ दृष्ट्वा मां च विशेषेण भीता | नष्टाः कुतोऽपि ते । मंजूषामुपभित्तिकं क्षिप्त्वा द्रविणसंयुतां ॥१०॥ आगत्याहमयैकेन लोलुपेनेति याचितः । तालं भक्तुमहं नालं तत्त्वमुदघाट्य देहि मे ॥ ११ ॥ मया तथा कृते तेन मंजूषासंस्थितं वरं । बध्ध्वा पोट्टलके वस्तु हीनसत्वेन जल्पितं ॥ १२ ॥ यदि यास्याम्यहं चौरा-स्तेऽन्ये वा राज-| पूरुषाः । आगत्यानुपदं शीघ्रं मां हनिष्यंति निश्चितं ॥ १३ ॥ कथं करोमि तद्वीर! सुधियं मे समा- | दिश । कारुण्येन मया तस्य रक्षोपायोऽथ चिंतितः ॥ १४ ॥ पद्मशिलां मयोद्घाट्य तत्र भट्टारिका
॥९३॥