________________
*
॥९४॥
*-*-984*--
मलय- M] गृहे । निक्षिप्तः शिखरे चौरः स लोप्त्रेण समन्वितः ॥ १५ ॥
तथैव तां शिलां मुक्त्वा स्थितं देवीगृहांगणे | वटवृक्षं समारुह्य यावत्सावहितः स्थितः ॥१६॥ | सर्व तावन्मया दृष्टं तवागमनमिच्छता । मध्ये वटकोटरं स्वं वस्त्रालंकरणादिकं ॥ १७ ॥ तया देवतया मत्तो हृत्वैतानीह कोटरे । मुक्तानीति मया ज्ञात्वा गृहीतान्यखिलान्यपि ॥ १८ ॥ इतस्त्वामागतां वीक्ष्य तत्रोन्मार्गेण मंदिरे । उत्तीर्याहं वटस्कंधान्मिलितोऽस्मि त्वया सह ॥१९॥ इत्याख्यातं मया कांते! तवाग्रे चरितं निजं । त्वमप्याख्याहि मे मूलादात्मीयं विहितं तदा ॥२०॥ सा जगाद | ततः स्वामिन् शिक्षा ते दधती हृदि । पुंरूपेण ततः स्थानाद्गताहं पुरमंतरा ॥२१॥ पृच्छंत्या मागधावासं भ्रमंत्या तत्र वेश्मसु । एकस्मिन्मागधा दृष्टा मया देवकुले तु सा ॥ २२ ॥ परमेकेन धूर्तेन | क्षिप्ता सा संकटे दृढे । लभते चलितुं नापि का कथा भोजनादिके ॥ २३ ॥ मया पृष्टाथ साचख्यौ | सगद्गदमिदं वचः । अहो सत्पुरुषाहं किं ब्रवीमि प्रतिभोज्झिता ॥ २४ ॥ उपविष्टास्म्यहं यावदात्मी. यमंदिराजिरे । तावदेष समागत्य धूर्तः पार्श्वे ममासितः ॥ २५ ॥ हा से लोक्तो मया नैष ज्ञातो
*-*-*-*-*-*-*
॥९॥
*-dP