________________
मलय॥ ९० ॥
1640010460
वल्लो तदा तथा । प्रसरत्या यथा तस्यास्तुच्छोऽमृद्विश्वमंडपः ॥ ७१ ॥ विनिघ्नन् श्रुतिमर्माणि तदा तूर्यरवो महान् । चतुरक्षांश्चकारोच्चैर्जीवान् पंचेंद्रियानपि ॥ ७२ ॥ स्थिरास्थिराणि लोकानां मनःशीर्षाणि कुर्वती । मधुरा विस्तृता गीतिगंधर्वाणामिहोत्सवे ॥ ७३ ॥ नृत्यन्नारीत्रुटद्धारमौक्तिकैमंडपा"जिरं । कुंकुमद्रवसंसिक्तं । बभो हर्षोकुरैरिव ॥ ७४ ॥ सारशृंगारधारिण्यः कोकिलामधुरखराः । जगू रंगेण कामिन्यः सधवा धवलानपि ॥ ७५ ॥ वधूवरतनुन्यस्तं बभौ चांदनलेपनं । तरंगितं नु लावण्य "नुनं यौवनवायुना ॥ ७६ ॥
भेटले
वधूवरं सदोदारं भूषितं भूरिभूषणैः । कल्पवल्लीकल्पवृक्षश्रियं तदवहत्तदा ॥ ७७ ॥ आरक्तसूत्रद्वैकमदनाख्यफलौषधेः । ताभ्यां भोक्तुं सरागः किं स्नेहग्रंथिः करे कृतः ॥ ७८ ॥ वेदध्वनौ प्रवृ| तेऽथ भट्टानां च जयारवे । मंगले क्रियमाणे च वेदी ताभ्यामलंकृता ॥ ७९ ॥ वेद्यंगानि व्यराजत चत्वारि परितस्तयोः । सेवावसरमिच्छंतः पुरुषार्थाः स्थिता इव ॥ ८० ॥ ज्वलनः प्रज्ज्वलंस्तत्र बभौ नूनं तयोर्द्वयोः । नृत्यन्निवानुरागोऽयं बहिर्भूत्वा प्रमोदतः ॥ ८१ ॥ कारिते विधिना तत्र विधिशेषे
चरित्रं
॥ ९० ॥