________________
मलय॥८९॥
208001069
**80-06-2011486988008
चरित्रं
वृद्धिमेतावतीं गतः । अपि दृष्टं न किं वेद्मि कुमारं तं महाबलं ॥ ६० ॥ उवाच भूपतिर्वृष्टिरनाभूदहो इयं । अकस्मादेव तज्जातमगम्यं मनसापि यत् ॥ ६१ ॥ अहो अवितथं जातं कथितं तस्य चाधुना । प्रचलेन्मेरुचूलापि न पुनर्ज्ञानिनो वचः ।। ६२ ।। तत्किं तारापथात्किं वा दिक्चक्राकिं | रसातलात् । कुमारोऽयं समायातः सम्यग्न ज्ञायतेऽपि किं ॥ ६३ ॥ अस्तु तावदियं चिंता सांप्रतं ज्ञास्यते यतः । पश्रादपि कुमारस्य मुखेनैवाखिलं ह्यदः ॥ ६४ ॥
करोम्यहं विनश्यति कार्याण्यन्यानि सांप्रतं । ध्यात्वेति ते नृपास्तेन बोधयित्वाऽपसारिता ||३५|| कुमारं जेमयामास कुमारीं स्वजनानपि । भोजनं प्रेषयामास राजान्येषां च भूभुजां ॥ ६६ ॥ विलो - कितेऽपि सर्वत्र न लब्धे ज्ञानिपुरुषे । दध्यौ भृपो गतो नूनं निरीहः सोऽन्यकार्यकृत् ॥ ६७ ॥ बुभुजे भूपतिः पश्चात्सार्द्धं चंपकमालया । सामग्रीं कारयामास लग्ने चासन्नसंस्थिते ॥ ६८ ॥ पूजयामास भूपालो विधिवत्कुलदेवताः । बंधुवृद्धगुरुंश्चापि वस्त्रतांबूलभोजनैः ॥ ६९ ॥ प्रावर्त्तत महे तत्र सज्ज - ॥८९॥ नानां परस्परं । विलेपनानि किं मूर्त्ता अनुरागा बहिः स्थिताः ॥ ७० ॥ सिक्ता दानांबुना राज्ञा यशो