________________
मलय
॥८७॥
तेन कनकवतीपाहिलादपि । लक्ष्मीपुंजाख्यहारेण कंठक्षिप्तेन भूषितां ॥३७॥ एताभिरेव ह्यस्माकमेष स्तंभः समर्पितः । अधुना कुलदेवीभिः पाणिग्रहणपर्वणि ॥ ३८ ॥ चतुर्भिः कलापकं ।। राजाख्यद् ज्ञानिनो ज्ञातं सर्वमस्तीति संप्रति । स्वप्नेऽप्यागत्य किमपि नोक्तं ताभिरिति ध्रुवं ॥ ३९ ॥ | अहो समीहितं सर्व सिद्धं संप्रति मामकं । सा च दूरे गता चिंता भाग्यमुद्घटितं पुनः ॥ ४०॥
खाटकरोति महामात्यास्तदेकं हृदये मम । यत्तेन ज्ञानिना दिष्टो वरः पुत्र्या महाबलः ॥४१॥ यद्यथा कथितं तेन तत्सर्वं मिलितं तथा । एतदेवान्यथा जातं यत्कुमार्या वरो न सः॥४२॥ यदेषोऽत्र महांस्तंभो वैणिकेन महोजसा । अनेन दारितो नूनं कुमार्या वर एष तत् ॥ ४३ ॥ | शृण्वन्निति नरेंद्रस्य वाक्यान्येष महाबलः । कृतकृत्योऽहसच्चित्ते वस्त्रेण पिहिताननः ॥ ४४ ॥
इतश्चोचे कुमार्येषा व स वीरः कलानिधिः । मत्पितुः सह दुःखेन स्तंभो येन विदारितः ॥४५॥ जल्पंतीति मृदु स्तंभफालीमध्याद्विनिर्ययौं । वेगवत्योपमात्राशु दत्तहस्तोपमृत्य सा ॥४६॥ लोकानां चित्तसंतोषं ददती गमनेन च । भंजती भूभुजां मूलात्तां मनोरथमालिकां ॥४७॥धृत
॥८७॥