________________
मलय
॥ ८६ ॥
18880
| रमिश्रश्रीखंडकस्तूरीकृतलेपना । दिव्यालंकारवसना तांबूलपूरितानना ।। २६ ।। वामेन पाणिना चारुबीटकं दक्षिणेन च । वरमालां च तं हारं श्रीपुंजं बिभ्रती हृदि ॥ २७ ॥ तन्मध्ये ददृशे राज्ञा कन्या मलयसुंदरी । आनंदपूर्णमनसा समकालं जनेन च ॥ २८ ॥ त्रिभिर्विशेषकं ॥ अथाप्रच्छ कुमारी सा नृपेण मुदितात्मना । वत्से ! कथय काष्ठे त्वं प्रविष्टात्र कथं कदा ॥ २९ ॥ ततो जगाद |सा बाला पश्यंती पितरं दृशा । जीविता यत्प्रसादेन कुलदेव्यो विदंति ताः ॥ ३० ॥ कुमार्यामिति जल्पंत्यामवतार्यावतारणं । वस्त्राद्यैर्घस्तुभिर्भूरिलोको राजादिकोऽवदत् ॥ ३१ ॥ कुमारित्वमिहास्माकं मिलिता स्मरतामिति । दृक्ष्यामो नयनैरेभिः किं कदापि कुमारिकां ॥ ३२ ॥ ऊचे चंपकमालाथ जाताहं वैरिणीव ते । त्वया वत्से ! कथं सोढं दुःखं तत्तादृशं पुनः ॥ ३३ ॥
1
राजा जगाद वत्से!त्वं निपतंत्यंधकूपके । धृताऽस्मत्कुलदेवीभिः स्थापिता चात्मसन्निधौ ॥ ३४ ॥ मामृदस्याः कुमार्यास्तु योऽपि सोऽपि वरः किल । इति राजकुमाराणां सत्वस्य कषहेतवे ॥ ३५ ॥ मध्येस्तंभं कुमारित्वां क्षिप्त्वा शृंगारबंधुरां । वरमालाकरां चारुचंदनादिभिरर्चितां ॥ ३६ ॥ अपहृ
K8089189
चरित्रं
॥८६॥