________________
मलय
॥ ८५ ॥
धनुगैंडो भारेण निपतन् भुवि । जहसे राजलोकेन दत्ततालं परस्परं ॥ १५ ॥ चापमादाय कर्णाटो वाणं तूर्णं च मुक्तवान् । तस्थौ शरीरसंकोचं दधानोऽयं पुनश्चिरं ॥ १६ ॥ स्थानान्न चलिताः केऽपि | केsपि लक्ष्याच्च्युता नृपाः । केऽपि जघ्नुः शरैः स्तंभं संरंभेण समन्विताः ॥ १७ ॥ अभिन्ने तत्र ते | स्तंभे लज्जया भूभुजो भृशं । आत्मानं बहु निंदंतो वीर्याहंकारमत्यजन् ॥ १८ ॥ राजापि वीरधवलचिंतयामास चेतसि । प्रकटा नाऽभवत्कन्या जने हास्यं भविष्यति ॥ १२ ॥ चिंताचक्रसमारूढो यावदेवं स भूपतिः । तस्थौ वीणाकरस्तावदुपस्तंभं महाबलः ॥ २० ॥ स्तंभयित्वा जनं सर्वं वोणावाद्येन तत्र सः । ग्रहीत्वा धनुराचख्यौ सत्वं पश्यत मे समे ॥ २१ ॥ मा ग्रहोस्त्वं धनुर्मुच मुंच गांधर्व द्रुतं । एभिर्भिन्नो न यः स्तंभः । स त्वया भेत्स्यते कथं ॥ २२ ॥
इति लोकनिषेधोक्ती: शृण्वन्नारोप्य तद्धनुः । चक्रे टंकारवं लोकश्रुतीधिरयन्नयं ॥ २३ ॥ | मुक्त्वा तत्स्थानकं ज्ञातस्थानमध्यस्थकीलिकां । छिंदंस्तीक्ष्णेन वाणेन स्तंभं तं हतवानसी || २४ ॥ ऊर्ध्वं विघटिते तस्मिन् सुदृढे स्तंभसंपुढे | पुण्यमुद्धटितं वीरधवलस्यास्य भूपतेः ॥ २५ ॥ कर्पू
चरित्रं
६ ।। ८५ ।।