SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ मलय.. | नैमित्तिकवचः सर्वं मिलितं नैकमेव तु । महाबलकुमारो यत्कन्यायाः कथितो वरः ॥ ४ ॥ केनापि कारणेनात्र स न प्रासो महोत्सवे । इदं मम सुतारत्नं स कथं परिणेष्यति ॥ ५॥ शृण्वन्निति कुमारः स हसंश्च पिहिताननः । चित्ते जगाद सर्व हि निदाने ज्ञास्यते पुनः ॥ ६ ॥ अथ सर्वेषु भूपेषु निविष्टेषु यथाक्रमं । श्रुतांधकूपनिक्षेपमुख्य कन्याकथोक्तिषु ॥ ७ ॥ यूयं यामिह कन्यां भोः |परिणेतं समागताः । हता सा तत्किमासीना अन्योऽन्यमितिवादिषु ॥८॥राजादेशेन बंद्यचे ययं सर्वेऽपि भूभुजः । बाह्वोर्बलेन दुष्प्रेक्ष्या आकर्णयत मद्वचः ॥ ९ ॥ त्रिभिर्विशेषकं ॥ वज्रसाराभिधं | चापमिदमारोप्य लीलया । एकेनैव प्रहारेण नाराचस्य दृढीयसा ॥ १०॥ द्विहस्तमानमेतस्य स्तंभस्याग्रं निरावृति । आहत्याशु द्विधा योऽत्र करिष्यति महाबलः ॥ ११ ॥ परिणेष्यति कन्यां स आविर्भूतां कुतोऽप्यतः । इत्युक्तं कुलदेवीभिरस्माकमिह पर्वणि ॥ १२ ॥ त्रिभिर्विशेषकं ॥ .. ... अथोत्थाय महोत्साहो बंदिवाक्येन वेगतः । दुर्द्धर्षधनुरालोक्य लाटः पाटवमुजहो ॥ १३॥ बांदिना प्रेरितश्चौडो भूपीठे चरणं दधौ । कोदंडीइंडतां वीक्ष्य कालिमानं मुखे पुनः॥१४॥ आददानो ८ ॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy