________________
मलय
॥ ८३ ॥
1808010891089
पदे पदे । महेन महता निन्ये स तैः स्तंभः स्वयंवरं ॥ ९३ ॥ युग्मं ॥
आनाय्य ज्ञानिना तेन षड्हस्तप्रमिता शिला । निक्षेपिता भुवो मध्ये द्वौ हस्तो तत्र मंडपे ॥ ९४ ॥ ऊर्ध्वकृतो महास्तंभः स तेन ज्ञानिना स्वयं । तस्याः पार्श्वेन संयोज्य स्वप्रयोगेण यंत्रितः ॥ ९५ ॥ तच्चापं वज्रसाराख्यं पश्चिमेन शिलामिमां । तत्र संस्थापितं दूरे नाराचेन समवितं ॥ ९६ ॥ सिंहासनानि राज्ञां तां दक्षिणेनोत्तरेण च । संस्थापितानि तेनेह परिवारासनानि च || ९७ || गंधर्वैश्च समारेभे गांधर्व मधुरस्वरैः । नर्त्तितं नर्तकीभिश्च तालमानला ॥९८॥ कारयित्वा ततः पूजां स्तंभकोदंडयोस्तयोः । नृपेण आह्वयामास ज्ञानी सर्वान् महीभुजः ॥ ९९ ॥ आगच्छत्सु महीपेषु पूर्णपार्श्वेषु सेवकैः । तत्रोपवेश्यमानेषु ज्ञानीवेगेन निर्ययौ ॥ ९०० ॥ कृत्वा स्वाभाविकं रूपं गत्वा गांधर्वसंसदि । नैमित्तिकपुमानेष आसीनः सर्वमैक्षत ॥ १ ॥ क गतः सोऽभवच्चात्रेत्यादि जल्पन ससंभ्रमः । नृपस्तं वीक्षयामास जनैः क्वापि स नेक्षितः ॥ २ ॥
जगादाथ नृपः सर्वे विधाय निजभाषितं । अर्द्धप्रसाधितं मंत्रं साधितुं स गतो ननु ॥ ३ ॥
26600*894498
चरित्रं
॥८३॥