________________
मलय
॥ ८२ ॥
10*8454001-200644
1
शुद्ध तावत्प्रेषित योऽभवत्पुमान् । समागत्य स भूपालं दत्तकर्ण व्यजिज्ञपत् ॥ ८२ ॥ युष्मदादेतो गत्वा देव गोपुरतो वहिः । यावदीक्षांबभूवाहं तत्समीपमितस्ततः ॥ ८३ ॥ प्रतोलीवामतस्तादृष्टः प्राकारकोणके । विचित्रचित्रसंयुक्तः स्तंभ एको मया महान् ॥ ८४ ॥ श्रुत्वेति ज्ञानिनं शंसन सहैवादाय तं नरं । ययौ तत्र महीपालः स स्तंभो यत्र विद्यते ॥ ८५ ॥ चित्रीयमाणचितोऽथ विस्फारितविलोचनः । यावद्भूपोऽपि लोकोऽपि स्तंभं तं पूजयिष्यति ॥ ८६ ॥ तावन्नैमित्तिकेनोचे स्तंभेऽस्मिन् केनचिन्न हि । लागनीयः करो येन कुप्यंति कुलदेवताः ॥ ८७ ॥ आनाय्य ज्ञानिना सर्वं ततः पुष्पादिकं स्वयं । पूजाविधिः समारेभे स्तंभस्यानेकभंगिभिः ॥ ८८ ॥ उपविश्य पुरस्तस्य कृत्वा पद्मासनं च सः । ध्यानस्थ इव वक्त्रेण चक्रे श्रीकरभाषणं ॥ ८९ ॥ कारिते प्रेक्षणे तत्र मिलिते च पुरीजने । सार्द्धयामे गतेऽथाह आदिष्टास्तेन ये नराः ॥ ९० ॥ शुचीभृता दृढस्कंधाः | पुष्पमालालिमालिताः । उत्पाव्य ते महास्तंभं प्रचेल्लुर्नगरीप्रति ॥ ९१ ॥ युग्मं || नरेंद्र सह लोकेन | पादचारेण गच्छति । नाटके क्रियमाणे च बंदिवृंदे पठत्यपि ॥ ९२ ॥ नागरैः क्रियमाणेषु मंगलेषु
18+
चरित्रं
हीँकार
॥ ८२॥