________________
मलय॥ ७९ ॥
बंधे शकुनथिस्तथेति भणता पुनः । पप्रच्छेऽसौ पुनर्ज्ञानी राज्ञेति मुदितात्मना ॥ ४९ ॥ यथैतात्या ज्ञानिन् सर्वमेतन्निवेदितं । पुरो ब्रूहि तथा को मे परिणेष्यति कन्यकां ॥ ५० ॥ तेनोचे पृथिवीस्थाने सूरपालस्य नंदनः । महाबलकुमारस्ते परिणेष्यति नंदनां ॥ ५१ ॥ अनुरूपतया लोके प्रशंसामुखरे सति । एकेन बंदिना पेठे तत्र कालनिवेदिना ॥ ५२ ॥ संत्यक्तपूर्व काष्टोऽयं दुरालोकः स्वतेजसा । सूरः प्रवर्त्तते देव लोकानां त्वमिवोपरि ॥ ५३ ॥ विज्ञतो मंत्रिणा राजा प्रसीद परमेश्वर !! गम्यते नगरीमध्ये मध्याह्नसमयोऽभवत् ॥ ५४ ॥ ज्ञानिनाथ समं राजा चचाल स्वगृहंप्रति । प्रसरत्यतुले तूर्यरवे लोकप्रमोदिनि ॥ ५५ ॥ पौराणां नयनानंदं कुर्वन् शृण्वंस्तथाशिषः । ददानो दानमर्थिभ्यो भूपालः प्राप मंदिरं ॥ ५६ ॥ प्रथमं ज्ञानिना तेन कारयित्वा ततः स्वयं । खानाशनादिकां चक्रे भूपतिः सकलां क्रियां ॥ ५७ ॥ तेनैव सह राज्ञाथ कुर्वता संकथादिकं । दिना हैं गमितं किंचिच्छयानेन निशापि च ॥ ५८ ॥ समादिष्टास्ततः कुंभेर्विष्टागालनकर्मणि । प्रातरागत्य सर्वेऽपि भूपमेवं व्यजिज्ञपन् ॥ ५९ ॥
ke k
Fp6
चरित्रं
॥ ७९ ॥