________________
मलय
चरित्र
१७८
स्तस्य विशिष्टः पूजनक्रमः । निमित्तेन मया ज्ञातमिदं सर्वमपि प्रभो ॥३८॥ इमानि यदि चिह्नानि । न मिलंति सुतापि न । ततस्तिष्टंति काष्टानि स्वायत्तान्यग्निना समं ॥ ३९ ॥ तस्यैवं वचनं श्रुत्वा जनः सर्वः प्रमोदभाक् । निमित्तज्ञनरस्येति चक्रे संस्तवनं तदा ॥ ४०॥ पुण्यरस्माकमत्र त्वं समाः | यातोऽसि सन्नर | जगतः सकलस्याप्युपकारोऽद्य त्वया कृतः॥ ४१ ॥ फणींद्रकूर्मराजाभ्यां वाङ्मा- 1 त्रेण धृता मही । नूनं सत्पुरुषैर्युष्माक्षेः सत्पुरुषोधृता ॥ ४२ ॥ अहो सदज्ञानलक्ष्मीस्ते परोपकृतिबंधुरा । तत्त्वं नंदचिरं जीव निस्सीमगुणसेवधे॥ ४३ ॥ तस्योपरि जनः सर्वो हर्षोत्कर्षवशात्तदा ।। वस्त्राण्युत्तारयामास सर्वाण्याभरणानि च ॥ ४४ ॥ उत्क्षिप्ताभरणो लोकः संयोज्य करकुद्मलो। जगा. देति गृहाणेदं प्रसीदास्मासु सन्मते॥ ४५ ॥ दोयते यदि सर्वस्वं हर्षदानेऽत्र तेऽधुना । तथाप्यस्यो. पकारस्य पुरः खल्पं महामते ॥ ४६ ॥ तेनोक्तं ननु युष्माकं मया ग्राह्यं न किंचन । यदि गृह्णे ततः कीदृगुपकारो भवेन्मम ॥ ४७॥ __ अथाह नृपतिस्तस्य स्तंभस्य पुरुषोत्तम।। यः कोऽपि पूजनविधिः स कर्त्तव्यस्त्वयैव हि ॥४८॥