________________
चरित्रं
मलय॥७॥
अतो दिनातृतीयेऽह्नि गते च प्रहरद्वये । मिलितेषु समग्रेषु लोकेषु क्षितिपेषु च ॥ २७ ।। आहूतेषु कुमारेषु मंडपेऽत्र स्वयंवरे । यथास्थानोपविष्टेषु पाणिग्रहणवांछया ॥ २८ ॥ कुतोऽपि सहसा तस्याः कुमार्या दर्शनं तव । वस्त्रालंकारयुक्ताया भविष्यत्यविचिंतितं ॥ २९ ॥ त्रिभिर्विशेषकं ॥ यथेच्छं तद्विधातव्यः स्वयंवरणमंडपः । आगच्छंतो नृपा नैव वारणीयाः प्रभो त्वया ॥३०॥ अत्रार्थे यदि | ते चेतः संदिग्धं क्षितिवासव । ज्ञानदृष्टयोपलब्धास्तच्छृण्वेतान् प्रत्ययानिह ॥ ३१॥ नामांकितं | कुमार्याश्चेन्मुद्रारत्नं कुतोऽपि ते । आगच्छति करे कल्ये सत्यं तन्मम भाषितं ॥ ३२ ॥ तथा चतुः | दशीघस्ने प्रत्यूषे नगराबहिः । पूर्वप्रतोलिकापाचे परीक्षार्थं महीभुजां ॥ ३३ ॥षहस्तप्रमितं स्तंभं | नानावर्णकचित्रितं । कुतोऽप्यानीय मोक्ष्यंति तव गोत्राधिदेवताः ॥ ३४ ॥ युग्मं ॥ स च देव (त्वया | स्थाप्यः स्वयंवरणमंडपे । वज्रसाराभिधं यच्च कोदंडं तेऽस्ति वेश्मनि ॥ ३५॥ पूर्वजानां च तच्चापं | कृत्वा नाराचसंयुतं । पूजयित्वा महाभक्त्या स्थाप्यं स्तंभस्य सन्निधौ ॥ ३६ ॥ तत्कोदंडं समारोप्य नाराचेन नरोऽत्र यः । स्तंभं भेत्स्यति स ज्ञेयः कन्यायास्ते वरो ननु ॥ ३७॥ स्तंभस्यास्ति पुन
।७७॥