________________
मलय
॥७६॥
***
00499991849984
लोको जगाद शीघ्रं भो आगच्छागच्छ सन्नर ।। उत्तार्यतां त्रिसंध्यं सजिह्वाया लवणं तव । १६ ।। जीवंती विद्यते क्वापि किं सा भूपालनंदना । दृक्ष्यते किं कदास्माकं नेत्रैरेभिर्वदाशु भोः ॥ १७ ॥ ऊचे नैमित्तिकः सोऽपि जलमानीय भो जनाः । विध्यापयत वेगेन चिताग्निं प्रथमोत्थितं ॥ १८ ॥ विध्यापिते चितावौ राजा देवीसमन्वितः । बाह्याभ्यंतरतापेन संतप्तोऽपि वहिष्कृतः || १९ ॥ नैमि त्तिको बभाषे च राजन् मा भुस्त्वमाकुलः । सा जीवंत्यस्ति कुत्रापि पुत्री मलयसुंदरी ॥ २० ॥ निमितस्य बलेनाहं जानामि नरनायक ! । तस्येत्युक्तिसुधासेकान्निर्वृतो नृपतिर्जगौ ॥ २१ ॥ युग्मं ॥ अहो नैमित्तिकैतावान् पुण्यभारोऽस्ति मे न हि । जीवंतीं स्वसुतां येन क्वापि दृक्ष्याम्यहं पुनः ॥ २२ ॥ ताक्षे यदि कूपेसा कृतांतोदरसन्निभे । पतितापि मृता नैव न कोऽपि म्रियते ततः ॥ २३ ॥ किंच पश्चान्मया पश्चात्तापसंतप्तचेतसा । अवटे तल नो लब्धा बहुधापि विलोकिता ॥ कुमारी तन्मृता नूनं जग्धा जीवेन केनचित् । अतो मम सुखेनाग्नौ मरणं किं न यच्छधु ॥ २५ ॥ नैमित्तिकस्ततः स्माह शृणु राजन् वचो मम । अयेयं वर्तते कृष्णा द्वादशी तिथिरुत्तमा ।। २६ ।
1
२४ ॥
48099288948
चरित्रं
॥७६॥