________________
मलय
॥ ७३ ॥
यत्संगतावेवमीदृग्दुःखार्द्दितावपि । तन्नूनमनुकूलोऽयं आवयोर्भगवान् विधिः ॥ ८३ ॥ ततस्तौ द्वावपि श्लोकं तं पठतौ पुनः पुनः । गत्वा गोलानदीतीरे चक्रतुर्मुखधावनं ॥ ८४ ॥ तस्यैवातरोः पक्क - फलान्यास्वाद्य तावुभौ । नदीतीरे स्थितं भट्टारिकायाभवनं गतौ ॥ ८५ ॥ अद्राष्टां तत्र तौ काष्टफालीयुग्मं यदंतरा । देवी चंपकमाला सा तदा लब्धा महीभुजा ॥ ८६ ॥ तदंतः शुषिरं दृष्ट्वा शिरः कंपयता भृशं । महाबलेन किमपि विचित्य हृदि भाषितं ॥ ८७॥ इदानीं त्रीणि कार्याणि कर्त्तव्यानि या शुभे । तावदेकं कुटुंबं ते त्रातव्यं मरणोद्यतं ॥ ८८ ॥ द्वितीयं तु त्वमुद्राह्या पितृदत्ता मया ननु । तृतीयं हारदानेन देयं मात्रे तु जीवितं ॥ ८९ ॥ लक्ष्मीपुंजे गते हारे पद्मावत्याः पुरो यका । स्वयं कृता प्रतिज्ञा सा पूरणीया मया खलु ॥ ९० ॥ तद्गच्छ त्वं पुरस्यांतर्म गधागणिकागृहे । अनेनैव नृरूपेण गंतव्यं दिवसात्यये ॥ ९१ ॥ सा कनकवती तत्र दृष्टव्या हारसंयुता । वर्त्तितव्यं तथा तत्र हारचटति मे यथा ॥ ९२ ॥ गत्वाहं तु नृपं पामि प्रविशतं चितानले । केनापि धीप्रयोगेण देवीयुक्तं सुदुःखितं ॥ ९३ ॥ देहि मह्यं कुमारि ! त्वं मुद्रारत्नमिदं निजं । मुद्राचौर इति ज्ञात्वाऽन्यथा
चरित्रं
॥ ७३ ॥