________________
मलय
॥७४॥
त्वं रुत्स्यसे भटैः ॥ ९४ ॥ नामांकितं तदादाय मुद्रारत्नं कचेषु सः । क्षिप्त्वा चाह त्वया भद्रे भ्रमणीयमलक्ष्यया ।। ९५ ॥ अद्य रात्रिः सममापि वेश्यावासे प्रयास्यति । पश्यंत्याः कनकवती हारं तं च कुमारि ते ॥ २६ ॥ गमयित्वा दिनं पश्चात्सायं पुनरिहैव हि । आगंतव्यं त्वया येना. वयोर्भवति संगमः ॥ ९७ ॥ यतो विधाय कार्याणि चिंतितानि यथा यथा । कल्ये सायं समेष्येऽहमपि भट्टारिकारहे ॥ ९८ ॥ कुमारकथितं चित्ते धृत्वा सा प्रस्थिता ततः । चंद्रावतीपुरीमध्यं प्राप पुंरूपधारिणी ॥ ९९ ॥ विचिंत्यागामिकार्याणि यथाकार्याणि चेतसि । पश्चान्महाबलोऽप्येष प्रतस्थे । नगरींप्रति ॥ ८०० ॥
अत्रान्ये बहवो भृपा मिलिष्यंति ससेवकाः । एकस्य पांथतुल्यस्य प्रवेशोऽपि कथं मम ॥१॥ ततस्तथा मया कार्य यथा भूपेषु सत्स्वपि । दत्ते कन्यामिमां मह्यं पिताऽसाविति चिंतयन् ॥२॥ कृतनैमित्तिकाऽकल्पो यावत्कतिपदान्यगात् । वृक्षमुले गजं बद्धं तावदेक्षत भूपभूः ॥ ३ ॥ त्रिभि- विशेषकं ॥ निगाल्यमानमालोक्य पुरीषं तस्य दंतिनः । तेन पृष्टाः कुमारेण ते जना इत्यचोकथन
७४॥