________________
मलय
चरित्रं
॥७२॥
सर्वनाशश्च देशत्यागश्च निर्मितः । अकोतिर्वर्द्धिता लोके तुच्छा धीयोंषितामहो ॥ ७२ ॥ सोमा स्त्री सावदत्तावद्विभाषा विभावरी । तदेश्यति कतोऽप्यत्र कोऽपि भपालपुरुषः ॥ ७३ ॥ गच्छाम्यहं पुरः क्वापि जल्पंतीति चचाल सा । कुमारौ तौ च पष्यंती प्रसन्नस्निग्धया दृशा ॥७॥ कुमारोऽथ कुमारी तां प्रत्युवाचावयोस्तया। तदिने क्रुद्धयायैव वैरमेवं विशोधितं ॥ ७५ ॥ अस्याः कनकवत्यास्तु दास्या एवेति मूलतः । ज्ञातः सवोंऽपि वृत्तांतस्तावको राजनंदने!॥ ७६ ॥ अहो स्व. ल्पेन कालेन भुक्तं दुःख त्वया महत् । ईदृग्दुःखैन यद्भिन्नमही ते हृदयं दृढं ॥ ७७ ॥ अंधकूपस्य मध्ये त्वं निपातगतचेतना । नूनमेतेन गलिताऽजगरेण दुरात्मना ॥७८ ॥ कूपोऽपि सोऽत्र कुत्रापि प्रत्यासन्नो भविष्यति । तस्मात्केनापि मागेंणाऽजगरोऽयं विनिःसृतः ॥ ७९ ॥
आम्रस्कंधेन संश्लेषं दातुमेषोऽत्र चागतः। कराभ्यां च मया धृत्वा निर्विलंबं विदारितः ॥८॥ अस्य मध्यात्कुमारी त्वं पतिता मिलिता च मे । पुण्यरतर्कितो जात आवयोरेष संगमः ॥ ८१ ।। दृष्ट्वा साजगरं भिन्नदेहं कंपसमन्विता । भणिता भूपपुत्रेण कार्या शंका न हि त्वया ॥ ८२॥ आवां