________________
मलय
॥७१॥
100000080
रे पश्यत पश्यत । तस्याः पदं निरीक्षध्वं गता वातायनेन किं ॥ ६१ ॥ अथ सर्वस्वमेतस्या लुंटितं राजपुरुषैः । राजादेशेन चाग्राहि परिवारजनोऽखिलः ॥ ६२ ॥ निर्दोषायास्तनूजाया निग्रहेणानुमूर्च्छितः | पश्चात्तापेन भूपालः सार्द्धं चंपकमालया ॥ ६३ ॥ जीविष्यति त्रियामायाः पश्चाद्यामयुगं यदि । प्रातश्चिताप्रवेशेन मरिष्यति तदा ध्रुवं ॥ ६४ ॥ पंचदशभिरर्थकुलकं ॥
आवां दृष्टुं विलोक्याथ भ्रमतो राजपुरुषान् । ऊचे कनकवत्याहमेवमातंकयुक्तया ॥ ६५ ॥ न सुंदरमिदं तावदेकत्रावामुभे अपि । यत्स्थिते यदि केनापि ज्ञाते बद्धे तदा ध्रुवं ॥ ६६ ॥ इत्युक्त्वा सारमादाय लक्ष्मीपुंजादिकं निजं । वेश्यायाः स्वस्निग्धसख्याः सा मगधाया गृहं गता || ६७॥ अहमेकाकिनी तत्र स्थाने तु स्थातुमक्षमा । कांदिशिका विनिःसृत्य वेगेनात्र समागता ॥ ६८ ॥ यन्मे पृष्टं कुमारौ ! भो ! युवाभ्यां भयकारणं । तन्मया कथितं सर्वमपि दुःखौघपूर्णया ॥ ६९ ॥ कुमारोऽथावददुष्टयोषितां चरितान्यहो । विनाशितं सुदुष्प्रापं कन्यारत्नं कथं तया ॥ ७० ॥ जीवितव्यस्य संदेहे स्थापितोऽपि नरेश्वरः । कृताः प्रजाश्च निर्नाथा इदं राज्यं च कंपितं ॥ ७१ ॥ आत्मनः
KAP KAD K #ffffff !!
चरित्रं
॥७१॥