________________
मलय
॥७०॥
184604486
मत्स्वामिनी चापि कापि शून्यगृहे स्थिते । अन्योऽन्यं लोकसंलापान् श्रुतवत्याविति क्षणं ॥ ५० ॥ राजा कथमपि प्राप्य चैतन्यं पूञ्चकार सः । ततश्चंपकमालापि तत्रायाता भयाकुला ॥ ५१ ॥ सा पप्रच्छ किमेतद्भो अस्माकं प्राणपातनं । चन्नश्रूण्यथो मंत्री सुबुद्धिः स्फुटमभ्यधात् ॥ ५२ ॥ कूटं कनकवत्यास्तद्यथा दृष्टं श्रुतं यथा । तथा मंत्रिमुखात् श्रुत्वा सर्वे शोकभरार्द्दिता ॥ ५३ ॥ देवी चंपकमालाथ कंठमालंब्य भूपतेः । महावेदनयाक्रांता पूच्चकार गुरुस्वरं ॥ ५४ ॥ युग्मं ॥ ततः कथंचित्संबोध्य भणितौ तौ च मंत्रिणा । विलोकयतमद्यापि कूपे तत्र कुमारिकां ॥ ५५ ॥ लभ्यते यदि जीवंती क्षिप्तापि प्राणसंशये । कुमारी सा ततोऽस्माकं पुण्यलेशोऽपि विद्यते ।। ५६ ।। तत्कालं स ततो गत्वा नृपस्तत्रांधकूपके । मध्ये निक्षिप्य पुरुषान् वीक्षयामास तां सुतां ॥ ५७ ॥ पयद्भिरपि तैस्तत्रांधकूपेऽतिभयानके । ददृशे क्वापि नो तस्याः कुमार्याश्चिह्नमप्यहो ॥ ५८ ॥ हताशोऽथ स्फुरत्कोपो विलक्षवदनो नृपः । प्रासादं पुनरागत्य मत्स्वामिन्या गृहं ययौ ।। ५९ ।। उद्घाट्याथ गृहद्वारमहांतश्च तां नृपः । जाज्वल्यमान कोपाग्निर्वक्तुमेवं प्रचक्रमे ॥ ६० ॥ नष्टा सा वैरिणी कुत्र रे
*************
चरित्रं
॥७० ॥