________________
मलय ॥६९
चरित्रं
हो हारवर त्वं मे हस्ते पुण्यैश्चिराद्गतः । सर्व तव प्रसादेन वांछितं साधितं मया ॥ ३९ ॥ त्वामत्र गोपयित्वा तु कोपयित्वा नराधिपं । मयाद्य घातिता कन्या सा जन्मांतरवैरिणी ॥ ४०॥ ततश्चिं. तामणिकल्पाहार त्वं मम दुर्लभः । अतः प्रभृति राजेव प्रसन्नी भव सर्वदा ॥ ४१ ॥ तत् श्रुत्वा हारमालोक्य दुःखातों भूपतिर्जगो । हा हा पापे त्वया कूटं विधाय छलितोऽस्म्यहं ॥ ४२ ॥ पुत्रीपार्धात्स्वयं हारं गृहीत्वा कथितं मम । महाबलकुमाराय हारः प्रादायि कन्यया ॥ ४३ ॥ सकुटुंबस्त्वया दक्षः पापेऽहं विप्रतारितः । निदोषा घातिता पुत्री जीवितं मम संहृतं ॥ ४४ ॥ हाहा दुष्टेः | १|| ऽपराद्धं किं मम पुत्र्याऽनया तव । इयत्कालं न दूनं यत् कीटिकामात्रमप्यहो॥ ४५ ॥ द्वाभ्यामपि | कराभ्यां द्वौ कपाटो ताडयन् दृढं । पूत्कुर्वन्नुच्चकैर्हा हा वंचितोऽस्मीति च ब्रुवन् ॥ ४६ ॥ प्राप मूर्छामतुच्छां स भूपालो दुःखविह्वलः । सर्वोऽपि मिलितो लोकः सहसा सर्वतोऽपि च ॥४७॥ युग्मं ॥
सुसंभ्रांतो जनो यावत् हा हा कि किमिति ब्रुवन् । शीतलैर्जलवातायैरुपचारपरोऽभवत् ॥४८॥ * तावद्वाक्षमार्गेण तया मरणभीतया । देव्या कनकवत्या द्राक् दत्ता झंपा मयापि च ॥४९॥ अहं
॥६९॥