________________
मलय.
चरित्रं
II૬૮
चिनजानीसमान
कंटकादिभिः । क्षरद्रक्तांधकूपस्य तस्य कंठं समासदत् ॥ २८ ॥ एकादशभिः कुलकं ॥
महाबलकुमारः स सूरपालस्य नंदनः । सांप्रतं शरणं मेऽस्तु जल्पंतीति पुनः पुनः ॥ २९ ॥ हाहारवेषु लोकानामुत्थितेषु समंततः । अंधकूपे ददौ बाला झंपां शंपाभ्रमप्रदा ॥ ३० ॥ युग्मं ॥ ततो बाष्पजलैः सिंचन् भुवं निंदंश्च भूपतिं । उपालंभं ददौ दुष्टदेवस्य निखिलौ जनः ॥ ३१ ॥ जगाम दुःखी व्यावृत्त्य स्वं स्वं स्थानं निशागमे । गत्वा भूमीपतेः सर्वं कथितं राजपूरुषैः ॥ ३२ ॥ युग्मं ॥ सकुटुंबोऽथ भूपालो मुदितोऽचिंतयत्तदा। निहता सुष्टु सा दुष्टा जातं क्षेमं कुलस्य मे ॥३३॥ स्वयंवराहतभूमीभृतां सांप्रतमित्यहं । ज्ञापयामि मृता रोगवशान्मलयसंदरी॥३४॥ आगंतव्यं न | युष्माभिरत्र कायेंऽधुना ततः । किंतु पृच्छामि कनकवतीमप्युपकारिणीं ॥ ३५॥ ततो यावद्ययौ राजा सुबुद्धिसचिवान्वितः । तस्या वासगृहं तावद् द्वारं दत्तं ददर्श सः ॥ ३६॥
कुंचिकाविवरेणाथ यावदेक्षत भूपतिः। दीपोद्योतेन कनकवती तावक्ष्यलोकत ॥३७॥ तां कृतोद्भटशृंगारां प्रमोदेन करस्थितेः । जल्पंतोमिति हारस्य लक्ष्मीपुंजस्य सन्मुखं ॥ ३८ ॥ युग्मं ॥
॥६८॥