________________
मलय
॥ ६७ ॥
गच्छंती पादचारेण वेष्टिता राजपूरुषैः । साऽपतत्पुनरुत्तस्थौ प्रास्खलच्च पदे पदे ॥ १७ ॥ हा कुमारि / किमस्माकं हृदयं न स्फुटेदिह । उड्डीयंते न किं प्राणा दुःखदग्धाः स्थिताः किमु ॥ १८ ॥ हा हा 'मधुरालापाः क्व सन्मानमपि क तत् । क्व मिथो मंत्रितं तच्च जल्पतीति सखीजने ॥ १९ ॥ स्वामिन्येषा तवावस्था किमस्माकं बभूव न । जीवंतः किं करिष्यामो निर्नाथाश्चाधुना वयं ॥ २० ॥ त्वां विना दुःखिता बाढं स्थास्यामः स्थानकांतरे | जल्पतीति मुहुः कर्मकरलोके च गच्छति ॥ २१ ॥ हा हा महानराधीश ! त्वयाऽस्थाने कृता रुषः । अपराधेऽपि किं हंत स्वमपत्यं निहन्यते ॥ २२ ॥ यद्येष चिंतितोऽनर्थस्त्वया नाथ ! विचक्षण! | कथं तदेष आरब्धः स्वयंवरणमंडपः ॥ २३ ॥ कन्योद्वाहोत्सुकानां तु प्राप्तानामिह भृभुजां । सर्वेषां सांप्रतं तेषां हा दास्यसि किमुत्तरं ॥ २४ ॥ हा हा चंपकमाले! त्वं माताऽस्यास्तत्कथं बलात् । राजा न वारितो दुष्टाध्यवसायादपि त्वया ||२५|| हा हा समानु षीरत्नशून्यं सर्वमभूज्जगत् । एतावतां गुणानां च क आवासो भविष्यति ।। २६ ।। विलपत्येवमत्यर्थं विज्ञपय्य नृपं बहु । विलक्षीभूय मिलिते समंतान्नगरीजने ॥ २७ ॥ राजांगजा विदारितचरणा
KA
चरित्रं
॥ ६७ ॥