________________
मलय
चरित्रं
| स्वामिन्संगच्छेऽहं तदेकशः । पित्रोः पादान्नमस्यामि दुर्लभानधुना स्वयं ॥ ६ ॥ नो चेदंत्यनमस्कारो | वाच्यस्तातस्य मे त्वया । अंबायाः कनकवतीसंयुक्तायाश्च सांप्रतं ।। ७ ॥
राजा जगाद कृत्वाऽपि कायोण्यनुचितानि वै। पृच्छत्येषापराधं तु कुमारी मम पाश्वेतः॥८॥ अहो गढो ह्यभिप्रायो योषितां कपटान्यहो । अहो मघरवाक्यानि परप्रत्यायनान्यहो॥९॥ एतस्याः किं प्रणामेन सुधाभाया वचोभरैः । हृदये विषतुल्यायाः कुमार्याः कूटताजुषः ॥ १० ॥ ततोऽस्माकं | मुखं नैव दर्शनीयमिहानया । यथेषं चास्तु मरणं तलारक्षे समीपगे ॥ ११ ॥ ततो वेगवती स्माह |
प्रसरच्छोकसंकुला । दक्षिणस्यां दिशि स्वामिन् गोलानद्या शुभे तटे ॥ १२ ॥ पातालमूलनामास्ति | सुगंभीरोंधकूपकः । दत्वा झंपां कुमारी सा तत्र स्वं साधयिष्यति ॥ १३ ॥ युग्मं ॥ इत्युक्त्वा सा वेगवती || रुदती बाष्पपूर्णदृक् । कथयामास वेगेन गत्वा राजसुतापुरः ॥१४॥ राजांगजापि कठिनं मनः कृत्वा | स्वकर्मणः । ददती दोषमालंब्य साहसं धीरिमान्विता ।।१५।। ध्यायंती हृदये पंचपरमेष्टिनमस्क्रियां। प्रचचालांधकूपं तं कृत्वा मनसि साहसं ॥ १६ ॥ युग्मं ।।