________________
मलय
॥६४॥
9860648269848209818
देवेदं किं त्वयारब्धं दारुणं ह्यसमंजसं । इदानीं किं भवेत्पुत्री न सा मलयसुंदरी ॥ ८४ ॥ क स स्नेहो गतः किं वापराद्धं कन्ययानया । कार्य सर्वमपि स्वामिन् कर्तुमालोच्य युज्यते ||२५|| विचारवर्जितं कार्यं क्रियमाणं न सुंदरं । पश्चात्तापो भवेत्पश्चात्स कोऽपि म्रियते यतः ॥ ८६ ॥ राजा कनकवत्युक्तं सर्वमाख्याय तत्ततः । तथा संबोधितो मंत्री यथा तूष्णीं भयादभूत् ॥ ८७ ॥ राजादेशेन गत्वाथ तलारक्षो जनान्वितः । कन्यासौधस्थितां कन्यामब्रवीन्मंदवागिति ॥ ८८ ॥ आदिदेश वधं राजा कुमारिकुपितस्तव । आदेशं देहि मे हंतुं हतकर्मा करोमि किं ॥ ८९ ॥ सुदीनवदनाश्रांतपताष्पा जलार्दिता । किंकर्तव्यतया मूढा जगादैवं नृपांगजा ॥ ९० ॥ अहो किमपि नृपस्य ज्ञायते कोपकारणं । स स्माहाहं न जानामि परमार्थं नृपात्मजे ! ॥ ९१ ॥ दध्यौ सा मानसे हा हा कोपो निष्कारण मयि । तात जाने ततो भावी पश्चात्तापो महांस्तव ॥ ९२ ॥ अयं केन विसंवादः कृतस्तेऽकारणारिणा । तवाऽविचारकारित्वमियत्कालमभृन्न हि ॥ ९३ ॥ निःसीमस्ते गतः कुत्रापत्यस्नेहः स तादृशः । अदर्शनेन मे येनानिष्टशंको क्षणादभूः ॥ ९४ ॥ अंब चंपकमालेऽहं तादृक्स्नेहेन
************+****
चरित्रं
॥ ६४ ॥