________________
चरित्रं
स्निग्धपित्रोः किं कृतमज्ञातया मया । न स्मरामि हहा किंचिद्भविष्यामि कथं कथं ॥ ७३ ॥ हारे * हृतेऽपि कथिते परस्मिन्नपि नेशः । पित्रोर्भवति मे कोपोऽपरं नामि किंचन ॥ ७४ ॥
इत्यादि चिंतयंती सा स्मरंत्यागोऽपि मूलतः । कुमारी दुःखिता तस्थी विधायाननपंकजा ७५॥ नृपेणोचे स्फुटं देवि कुमार्या दुष्टचित्तया । लक्ष्मीपुंजाभिधो हारः कुमाराय समर्पितः ॥७६॥ ततः कनकवत्या यत्कथितं तन्मृषा न हि । मारयिष्यति मामेषा तेर्दुष्टैमिलिता घनैः ॥७॥ एषा दुष्टावयोरिष्टाऽतीव स्वप्राणतोऽपि हि । संजाता वैरिणी कापि किं तु पुत्रीमिषादियं ॥ ७८॥
जीवयत्यनुरक्ता स्त्री विरक्ता मारयत्यपि । मित्रं करोत्यमित्रं द्रागमित्रं मित्रमीय॑या ॥ ७९ ॥ ततो . यावदियं दुष्टैर्न संगच्छेत वैरिभिः । तावत्सुखेन हन्येत विनष्टांगुलिवत्प्रिये!॥ ८० ॥ गमयित्वात्रि
यामां तामतिकृच्छ्रेण भूभुजा । एवं प्रभातवेलायामादिष्टो दंडपाशिकः ॥ ८१ ॥ रे रे मम सुता. है प्येषा पापा मलयसुंदरी । हंतव्याशु त्वया लात्वा पृष्टव्यं न पुनः पुनः ॥ ८२ ॥
ज्ञात्वा व्यतिकरं चेमं समागत्याशु बुद्धिमान् । सुबुद्धिसचिवो रोषाहुष्प्रेक्ष्यं भूपमब्रवीत् ॥८३॥
॥६६॥