________________
मलय
चरित्रं
॥६२॥
चित्ते तुच्छधियामिह । स्वामिन्मधुरवाणीनां प्रस्फुरत्यसमंजसं । ६२ ॥ यत्प्रभावेण भर्तार भ्रातरं पितरं तथा । पातयंति महाऽनर्थजाले ता हतबुद्धयः ॥ ६३ ॥ अनर्थोऽयं मया देव भविष्यन् कथि. तस्तव । हृदये रोचते यच्च कर्त्तव्यं तत्वयाधुना । ६४ ॥ यदि न प्रत्ययोस्त्यत्र विषये तव मानसे। याचस्व तं महाहारं सुतां मलयसुंदरीं ॥ ६५ ॥
इत्यनेकमृषावाक्ये.रिण्या पूर्वजन्मनः । तथा प्रकोपयांचक्रे तया राजातिदुष्टया ॥६६|| यथा रोषांधलो जातो विसृज्यावां नरेश्वरः । देवी चंपकमालां तामेकांते समजूहवत् ॥६७ ॥ सर्व निवे. दितं तस्याः सापि रोषारुणा जगौ । न चेदास्यति तं हारं पुत्री सत्यं तदाखिलं ॥ ६८ ॥ नृपेणा. कारिता तत्र तं हारं याचिता सती । प्राक् संभ्रांता ततो भीता कुमारी मौनमाश्रिता ॥ ६९ ॥ पश्चात्संकल्प्य सा चिते दंदावेवं मृषोत्तरं । मत्पार्धात्तात केनापि स हारोऽपहृतो ननु ॥१०॥ कुपि| तेन ततो राज्ञा जगदे सा पुरो बज । हा पापेऽपसरावासे मा मुखं दर्शयात्मनः ॥ ७१ ॥ जननीसहितं तातं दृष्ट्वा सा कुपितं भृशं । ततो व्यावृत्य वेगेन संप्राप्ता निजमंदिरं ॥ ७२ ॥ अप्रियं