________________
मलय-1 मनोरमः ॥ ५० ॥ सोमा स्माह तया देव्या हृष्टयाऽभाणि मांप्रति । अहो अपूर्वमाश्चर्य हले त्वं पश्य |
पश्य भोः ॥५१॥ पतितो यदिहस्थाने निःसंचारे शरीरिणां । कुतोऽप्यागत्य कंठे मे कुमार्या हार एष सः ॥५२॥ पश्य सर्वत्र कोऽप्यत्र वत्से! तिष्टति कुत्रचित् । इत्युक्ते कोऽपि पश्यंत्या मया दृष्टस्तयापि न ॥ ५३ ॥ क्षणं ध्यात्वा महाकूटं किमप्यूचेऽहमेतया | कथनीयो न कस्यापि हारलाभस्त्वयैष तु ॥ ५४॥ हारं संगोप्य भूपस्य पार्श्वे सागान्मया सह । याचित्वैकांतमेवं च पृथ्वीपालं व्यजिज्ञपत् | ॥ ५५ ॥ पृथ्वीस्थानपुरे स्वामिन् सूरपालोऽस्ति भूपतिः । महाबलकुमारश्च तस्य रूपकलानिधिः |॥५६॥ अत्र प्रच्छन्नमायाति तस्यैकं मानुषं सदा। पार्श्वे मलयसुंदर्या वल्लभाया अतीव नः ॥५७॥ लक्ष्मीपुंजो महाहारः स्वामिस्तेन जनेन सह । कुमार्या प्रेषितः सोऽद्य कुमारस्यास्य हेतवे ।। ५८ ॥ संदिष्टं च तथा तस्मै कुमाराय त्वया पुरे । एतव्यं बलयुक्तेन स्वयंवरमिषाद द्रुतं ।। ५२ ।। अन्येऽपि बहवो भूपा मिलिष्यति तवात्र ते । मत्संकेतादिदं राज्यं गृह्णीया उदहेश्च मां ॥६०॥ कुमारी सरला देव तेनैवं विप्रतारिता । राज्यलुब्धेन धूर्तेन गर्वितेन निजौजसा ॥ ६१ ॥ तत्किमपि मृगाक्षीणां
॥ ६ ॥