________________
मलय
॥ ६० ॥
181094100*480*
Sr नरनेपथ्यधारिण्या राजकन्यया । प्रद्वेषस्य निमित्तं किं गण्यते तत्र सुंदरि ! ॥ ४० ॥ कुमारोऽवक् सपत्नीनां तज्जातानां च सर्वदा । वैरं स्यादथ सा स्माह भविष्यति किमप्यदः ॥ ४१ ॥ एतावति दिनान्यस्याः परयंत्याशिछद्रसंततिं । तया निर्गमितानीह दुष्टया क्लिष्टचित्तया ॥ ४२ ॥ अतिक्रांतनिशायां तु तस्थुष्यां मयि सन्निधौ । तस्याः कंठेऽपतद्धारो लक्ष्मीपुंजाभिधः कुतः ॥ ४३ ॥ तद्वचोमृतवत् श्रुत्वा कुमार इव जीवितः । पुनर्जगाद हारः स पतितः स्थानकात्कुतः ॥ ४४ ॥
सा स्माहाकाशतोऽस्मात्पतितः किंतु वीक्षितः । अस्माभिः कोऽपि नाकाशे न च दिक्षु विदिक्ष्वपि ॥ ४५ ॥ कुमारोऽचिंतयत्तस्या व्यंतर्याः पार्श्वतोऽपतत् । अथ स्नेहेन केनापि तस्याः कंठे विमोचि वै ॥ ४६ ॥ इयत्कालमभूयस्य न शुद्धिः क्वापि केनचित् । एवंविधे महाकष्टे यदर्थं पतितोऽस्म्यहं ॥ ४७॥ यस्य स्वप्नाधिगम्यस्य लाभाशापि न चाभवत् । प्रवृत्तिस्तस्य हारस्य लब्धाहो पुण्यतोऽधुना ॥ ४८|| तन्नूनं पूरयिष्यामि प्रतिज्ञां तां कृतां निजां । जीविष्यति कुलं सर्वमंवा हृष्टा भविष्यति ॥ ४९ ॥ लब्ध्वा कनकवत्या तं किं किं सुंदरि ! निर्मितं । कुत्र गतश्च हारः स लक्ष्मीपुंजो
I
चरित्र
॥ ६० ॥