________________
Savant
चरित्र
मलय- ॥५९॥
i
तच्छृणुतं युवां । सैषां गोलानदी नाम्ना तटे यस्याः स्थितो युवां ॥ २९ ॥ इतश्चंद्रावतीनाम समीपेऽस्ति महापुरी । श्रीवीरधवलो राजा राज्यं तस्यां करोति च ॥ ३० ॥ कुमारश्चिंतयामास चित्रं चित्रमही महत् । निपतन् निपतन स्थाने क्वाहं निपतितोऽधुना ॥ ३१॥ तातेन प्रेषितो यत्र तदेव मम वांछितं । मया तन्मंच संप्राप्तमहो पुण्यस्य वैभवं ॥ ३२ ॥ कुमार्या मिलितश्चाहं गतयापि यमानने । मयैषा जीविता चाहो अनुकूलो विधिर्मम् ॥ ३३ ॥ कुमारः स्माह किं भद्रे, बभूवास्य महीभुजः । बभाषे साथ तस्यासीत्कन्या मलयसुंदरी ॥ ३४ ॥ प्रारब्धो मंडपस्तस्या राज्ञा वयः | स्वयंवरः । सर्वत्र प्रहिता दूता आह्वातुं राजनंदनान् ॥३५॥ अतो दिनातृतीयेऽह्नि चतुर्दश्यां स्वयंवरः । राज्ञा हृष्टेन सर्वापि सामग्री प्रगुणीकृता ॥ ३६ ।।
इतश्चास्त्यत्र तन्मातुः सपत्नी कनकावती । तस्या मलयसुंदर्या द्वितीया जननीति सा ॥ ३७॥ | तस्याः कनकवत्यास्तु सौमाख्याहं महल्लिका । स्थानं सर्वरहस्यानां सर्वकार्यविधायिका ॥ ३८ ॥ सदा कनकवत्येषा वहतो द्वेषमुत्कटं । तस्याश्छिद्राणि पश्यंती कुमार्यास्तस्थुषी रुषा । ३९॥ ऊचे.
kript-
Bel
।.५९॥