________________
मलय
॥ ५८॥
066938060010000644
ध्यात्वेति गुटिकां केशपादाकृष्य लीलया । संघृष्याम्ररसेनास्याश्चित्रं भालेऽकरोदसौ ॥ १८ ॥ तत्प्रभावेण पुंरूपां दृष्ट्वा तामवदञ्च सः । मन्निष्टयुतेन न स्पृष्ट या चित्रमिदं तव ॥ १९ ॥ तावत्स्वाभाविकं रूपं भविष्यति न ते क्वचित् । चक्रे रूपपरावर्त्त मागच्छदुष्टशंकया ॥ २० ॥ यतो न ज्ञायते सम्यग् रजन्यास्तिमिरे सति । चौरो वान्यतरः कोऽप्यागच्छत्युन्मार्ग एव हि ॥ २१ ॥
इहागच्छत्वसावेक एवावां द्वौ जनो पुनः । पश्यत्वाशु विलक्षो वा यातु स्थानं यथेप्सितं ॥२२॥ यावन्न ज्ञायते सम्यक् पर्यतोऽस्य कथंचन । स्थातव्यं तावदावाभ्यां मौनेनात्रैव सुंदरि ! ॥ २३ ॥ मा कार्षीस्त्वं भयस्यापि लेशं लोलेक्षणे! हृदि । वारयिष्यामि गच्छंतमपि वातं तवोपरि ॥ २४ ॥ एवं संस्थाप्य तां बालां कुमारो यावदैक्षत । तावदेकामपश्यत्स्त्रीमागच्छंतीं द्रुतं द्रुतं ॥ २५ ॥ ततोऽभाणि कुमारेण खरेण मृदुना शुभे । कासि त्वमसहाया किं कंपः किं तव वर्ष्मणि ॥ २६ ॥ किं चास्ति भूप्रदेशेऽत्र नगरं किं नृपश्च कः । आवां वैदेशिकौ विद्वो न किंचिदुषिताविह || २७ ॥ आश्वासिताथ मधुरालापेनानेन सा वशा । तयोः कुमारयोर्जातविश्वासैवमभाषत ॥ २८ ॥ हे क्षत्रियकुमारौ यत्पृष्टं
**
चरित्रं
॥ ५८ ॥