________________
मलय
स्ताव-जंबालाविलमात्मनः ॥ ६॥ पश्चादावां गदिष्यावो वृत्तांतं तं निजं निजं । इत्युत्थाप्य * कुमारी सा नीता तेन नदीतटं ॥ ७ ॥ वपुः प्रक्षाल्य पीत्वा च जलं व्यावृत्य तावुभौ । उपविष्टौ | पुनः स्वस्थो तस्यैवाम्रतरोस्तले ॥८॥ ततो मलयसुंदर्या पृष्टः संतुष्टचेतसा । कुमारेणाखिलोभाणि | स्ववृत्तांतोऽतिचित्रकृत् ॥ ९॥ चमत्कारकरं श्रुत्वा वृत्तांतं तस्य विस्मिता । कुमारी कंपयामास स्वं . मृर्द्धानं पुनः पुनः ॥ १० ॥ क्षिपंती स्नेहलां दृष्टिं कुमारे सा जगौ पुनः । अनुभूतमहो कष्टं त्वया
सुंदर कीदृशं ॥ ११ ॥ कुमारः स्माह तन्वंगि स्ववार्ती ब्रूहि मूलतः । उदरेऽजगरस्यास्य कथं त्वं पतिता किल ॥ १२ ॥ तादृशं सौधमारुढा रक्ष्यमाणा महाभटेः । अनेन त्वमिहानीता मिलित्वा | पाप्मना कथं ॥ १३ ॥ सा जगाद प्रवेशं न जानाम्यजगरोदरे । अन्यत्सर्वे शृणु त्वं मे भूत्वा वनसमोऽधुना ॥ १४ ॥ इतश्चाकर्णयामास कुमारो मत्यसंचरं । चित्ते च चिंतयामास रजन्यां कश्चरेदिह ॥ १५ ॥ चौरश्चेद् द्यूतकारो वा भवेजारोऽथ घातकृत् । तन्नारीसन्निधो कर्तुं शक्यतेऽस्य न किंचन | ॥१६॥ भविष्यत्यथवा कोऽपि कुमार्याः पूर्वसंस्तुतः । स इमां वीक्ष्य मत्पावें करिष्यत्यसमंजसं ॥१७॥
॥५७ ॥