________________
मलय
॥५६॥
DB-diff
८००
दास्यति । कुमारस्तत्पुरस्ताव - त्स्थानमास्थाय संस्थितः ॥ ९५ ॥ दक्षत्वेन ततस्तस्य गृहीत्वौष्टयुगं समं । कराभ्यां पाटितं तेन तन्मुखं जीर्णवस्त्रवत् ॥ ९६ ॥ तन्मुखात्पतिता चैका युवती मंदवेतना । जल्पतीति कुमारः स शरणं मे महाबलः ॥ ९७ ॥ दृष्ट्वा तामात्मनो नाम गृह्यमाणं तया स्त्रिया । श्रुत्वा च विस्मितश्चित्ते कुमारोऽतिशयेन सः ॥ ९८ ॥ मुक्त्वाथाजगरस्याऽस्यं हस्ताभ्यामुभये दले । | पश्यन्नासन्न एतस्याः सोऽपश्यन्मुखपंकजं ॥ ९९ ॥ ततो मलयसुंदर्याः सदृक्षां वीक्ष्य तां व॒शां । चमत्कृतः स चिक्षेप वातं वस्त्रेण शीतलं ॥ २०० ॥ मूर्छापरवशा बाला सा तं श्लोकमचीकथत् । | कुमारेण ततोऽज्ञायि सैषा मलयसुंदरी ॥ १ ॥ आदरेण ततस्तस्या देहसंवाहनापरे । कुमारे स्वस्थ - ताभाजो दृष्टिरून्मिलिताऽचिरात् ॥ २ ॥ कुमारः स्माह मुंचाशु निद्रामुद्रां मृगेक्षणे ! गृहाण स्फुटचैतन्यं ममातिव्याकुलं मनः ॥ ३ ॥ उन्मील्य नयने सम्यगुत्थिता सा नृपात्मजा । वपुः संवाहनासक्तं वीक्षांचके नृपात्मजं ॥ ४ ॥ वपुः संवृत्य पश्यंती बाला तं स्निग्धया दृशा । उवाच जीवि - ताहं तु कथं मे तेऽपि संगमः ॥ ५ ॥ कुमारः स्माह तन्वंगि! प्रत्यासन्नापगाजले । प्रक्षालय वपु
passport 6-8
*+*+*+
चरित्र
१.५६ ॥